SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः ] जीवानन्दनम् । यातं देव मया जवेन महता तत्पुण्डरीकं पुरं श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठ्यमेतादृशम् । तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्ति तयैवागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा ॥ १७ ॥ राजा - (सहर्षम् 1) कथमेतावदनुगृहीतः । अहो प्रसादातिशयो मयि भगवत्याः । कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती । स्मृतिः - अघ इं । (क) (ततः प्रविशति श्रद्धया सह भक्ति: 1) भक्तिः - सखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभिमुख एव संवृत्तः । श्रद्धा - अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसअप्पवणं करेइ । तह अ कदिदं अहिजुत्तेहिं । (ख) (संस्कृतमाश्रित्य ।) जरठापि काचिदसती संदर्भ्य गुणान्परस्य पुरुषस्य । सङ्गं विनैव हसितैः सर्वस्वं हरति हन्त किं ब्रूमः ॥ १८ ॥ भक्तिः - भवतु । अतस्तस्मिन्मम दृढः प्रेमातिशयः । सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्य हो । अस्त्वेतद्व्यपयुक्तमात्मकलने तस्मान्निरस्तामयं निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये ॥ १९ ॥ ११ For Private and Personal Use Only - (क) अथ किम् । (ख) अम्ब, देव्या गुणमय्या दुख्ययाया मायाया: कुटिलाया एपोऽनादिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति । तथा च कथितमभियुक्तः ।
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy