Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(आकाशे ।) अरे विज्ञानहतक,
आश्रित्य यं सततमुत्पतसि स्मयेन
निर्वापयामि तमहं सहसैव जीवम् । पश्चाद्विनङ्यति भवानपि चाश्रयस्य
नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः ॥ ४१ ॥ राजा-कः कोऽत्र भोः, शस्त्रम् । (इत्युत्थातुमिच्छति ।) पाण्डुः-ननु संनिहितमेव शस्त्रम् । तथापि किंचिद्विज्ञापयामि । अस्त्येवायमन्तिमः प्रकारः । अपि तु
त्रिषूपायेषु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः ।
उपायमिममेवातो मनो मे प्रयुयुक्षते ॥ ४२ ॥ राजा-कोऽयमुपायः । पाण्डुः--(कणे ।) एवमेवम् । राजा--भवतु तथा । अस्त्येवैतदनन्तरकर्तव्यम् । पाण्डुः-देव, मार्गश्रम इव दृश्यते सिद्धं च सर्व शयनादि ।
राजा-त्वमपि स्वकार्येऽवहितस्तिष्ठ । अहमपि भुक्त्वा निद्रास्थानं गच्छामि।
(इति निष्क्रान्ताः सवै ।)
इति पञ्चमोऽङ्कः ।
षष्टोऽङ्कः।
(ततः प्रविशति कर्मणा सह कालः ।) काल:----वत्स कर्मन्, जीवस्य राज्ञः पुरबाधनार्थ यक्ष्मराजमन्त्रिणा पाण्डुना प्रयुक्तान्रोगरूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सरसतत्प्रतिभटजातं किं करोतीति जिज्ञासते मे हृदयम् ।
कर्म-भगवन् , सर्वानुस्यूतस्य तव किं नामाविदितमस्ति । काल:-~-भवानपि तादृश एव । महान्खलु तव प्रभावः । तथाहि ।
For Private and Personal Use Only

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368