SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (आकाशे ।) अरे विज्ञानहतक, आश्रित्य यं सततमुत्पतसि स्मयेन निर्वापयामि तमहं सहसैव जीवम् । पश्चाद्विनङ्यति भवानपि चाश्रयस्य नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः ॥ ४१ ॥ राजा-कः कोऽत्र भोः, शस्त्रम् । (इत्युत्थातुमिच्छति ।) पाण्डुः-ननु संनिहितमेव शस्त्रम् । तथापि किंचिद्विज्ञापयामि । अस्त्येवायमन्तिमः प्रकारः । अपि तु त्रिषूपायेषु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः । उपायमिममेवातो मनो मे प्रयुयुक्षते ॥ ४२ ॥ राजा-कोऽयमुपायः । पाण्डुः--(कणे ।) एवमेवम् । राजा--भवतु तथा । अस्त्येवैतदनन्तरकर्तव्यम् । पाण्डुः-देव, मार्गश्रम इव दृश्यते सिद्धं च सर्व शयनादि । राजा-त्वमपि स्वकार्येऽवहितस्तिष्ठ । अहमपि भुक्त्वा निद्रास्थानं गच्छामि। (इति निष्क्रान्ताः सवै ।) इति पञ्चमोऽङ्कः । षष्टोऽङ्कः। (ततः प्रविशति कर्मणा सह कालः ।) काल:----वत्स कर्मन्, जीवस्य राज्ञः पुरबाधनार्थ यक्ष्मराजमन्त्रिणा पाण्डुना प्रयुक्तान्रोगरूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सरसतत्प्रतिभटजातं किं करोतीति जिज्ञासते मे हृदयम् । कर्म-भगवन् , सर्वानुस्यूतस्य तव किं नामाविदितमस्ति । काल:-~-भवानपि तादृश एव । महान्खलु तव प्रभावः । तथाहि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy