Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] जीवानन्दनम् । - त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च । किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत स्तत्त्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम् ॥ १ ॥ अपि च। त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा विधानेकफलानि दत्से । इन्द्रत्वमिन्द्रस्य विधेविधित्वं हरेहरित्वं च फलं त्वदीयम् ॥ २ ॥ कर्म-आर्य, अवाङ्मनसगोचरस्तव महिमा । सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या (सविनयम् ।) भवति भवदधीनं मद्विधानं जनानाम् । भगवन् , किमन्यद्रवीमि । परिणमयसि पुंसां दातुमर्थात्मना मां त्वयि कृतिमति पोढा विक्रियन्ते च भावाः ॥ ३ ॥ किं च । त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम् । ऐकध्यमापन्नमखण्डरूपमाघारमेषो जगतामवैमि ॥ ४ ॥ निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान् । भवत्तनूभृत्त्वयने तथाब्दं युगं च मन्वन्तरमप्यवैमि ॥ ५ ॥ काल:-तदिदानी पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुषी कृतार्थयिप्यावः । पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गृहीतो राजेति जानामि। आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः । उभयेषामपि युद्धं पश्यावः संलपावश्च ॥ ६ ॥ किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368