Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः ] जीवानन्दनम् । ६३ अतः सर्वमस्मै निवेदयामि । यदयमपि तस्य पाण्डोविश्वासस्थानमेवेति । (प्रकाशम् ।) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम् । विज्ञानप्रहितेन राजहत केनास्मन्निसर्गद्विषो यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात् । स्वच्छन्देन च पुण्डरीकनगरीं गत्वा मनोद्वारतः साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम् ॥ १४ ॥ तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थे कामादयः षडेव प्रभवन्तीति त एव वयं प्रेषिताः । अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्त्र्यकरणम् । कुष्ठः -- ततस्ततः । मत्सरः -- ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि । कुष्ठ: - अथ कामस्य कावस्था । मत्सरः - सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम् । श्रुत्वा पित्तकफात्मपङ्गुयुगल स्पष्टोपजापं तथा हृद्रोगस्य विमोचनं च सचिवः स्वात्कििकराद्विस्मितः । (आकाशे लक्ष्यं बद्धा ।) पाण्डो साधु भवान्यदेव परमेशाराधने साधनं चेतःस्थैर्यवदुद्यतस्तदरिणा तद्धेत्तुमित्यब्रवीत् ॥ १९ ॥ इतः परमपि स बुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्यापृततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रवलांस्तद्वेदिनः कामादीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम् । कुष्ठः -- ततो विचारेण किं कृतम् । मत्सरः - तेन च तत्सदृशबुद्धिना कामः कामपि योग कलामुत्पाद्यो - पजापेन ध्यानविषयतामापादितः । कुष्ठ: - हा कामस्यापि परिणतिः । अथ क्रोधस्य को वृत्तान्तः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368