Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मत्सरः कमपि प्रदर्श्य दोषं विचारहतकेन सोऽपि च क्रोधः । अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत् ।। १६ ।। कुष्ठः-हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्रवृत्तः। अथ लोभः कथम्। मत्सरः--यादृशः कामः । कुष्ठः साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया । यादृशी प्रापितोऽवस्थां कामस्त्वमपि तादृशीम् ॥ १७ ॥ अथ दम्भः क्व । मत्सरः उपजप्तोऽपि बहुधा तैरस्माकं स केवलम् । सौहार्दमुपरुन्धानः शस्त्रघातहतोऽजनि ॥ १८ ॥ कुष्ठः-धन्योऽसि दम्भ, धन्योऽसि । यतः सख्युरनृणतां गतोऽसि । अथ कथय किमध्यवसितं मदेन । मत्सरः-मदस्तु निगृह्य कारागारे स्थापितः । कुष्ठः-ततः । मत्सरः-निर्गते च पुण्डरीकनगराद्राजनि नर्मकर्मण्येनमुपयोक्ष्यामह इति । __कुष्ठः-मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि । __मत्सरः-शृणु तावत् । नहि मम स्वेच्छया ततो निगमो जातः । यतो रससिद्ध्यनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करिष्याम इति निगृह्य स्थापितोऽस्मि । कुष्ठ:--तर्हि सखे, तवागमनमिदानीं तत्र रससिद्धि सेनासंनाहं च सूचयति । मत्सरः-एवमेतत् । समनन्तरमेव राज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डुमाविष्कुरु स्वामिप्रीतिमुपेहि मन्त्रकलनाकौशल्यमप्यश्लथम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368