________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मत्सरः
कमपि प्रदर्श्य दोषं विचारहतकेन सोऽपि च क्रोधः ।
अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत् ।। १६ ।। कुष्ठः-हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्रवृत्तः। अथ लोभः कथम्। मत्सरः--यादृशः कामः । कुष्ठः
साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया ।
यादृशी प्रापितोऽवस्थां कामस्त्वमपि तादृशीम् ॥ १७ ॥ अथ दम्भः क्व । मत्सरः
उपजप्तोऽपि बहुधा तैरस्माकं स केवलम् ।
सौहार्दमुपरुन्धानः शस्त्रघातहतोऽजनि ॥ १८ ॥ कुष्ठः-धन्योऽसि दम्भ, धन्योऽसि । यतः सख्युरनृणतां गतोऽसि । अथ कथय किमध्यवसितं मदेन ।
मत्सरः-मदस्तु निगृह्य कारागारे स्थापितः । कुष्ठः-ततः ।
मत्सरः-निर्गते च पुण्डरीकनगराद्राजनि नर्मकर्मण्येनमुपयोक्ष्यामह इति । __कुष्ठः-मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि । __मत्सरः-शृणु तावत् । नहि मम स्वेच्छया ततो निगमो जातः । यतो रससिद्ध्यनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करिष्याम इति निगृह्य स्थापितोऽस्मि ।
कुष्ठ:--तर्हि सखे, तवागमनमिदानीं तत्र रससिद्धि सेनासंनाहं च सूचयति । मत्सरः-एवमेतत् । समनन्तरमेव राज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डुमाविष्कुरु
स्वामिप्रीतिमुपेहि मन्त्रकलनाकौशल्यमप्यश्लथम् ।
For Private and Personal Use Only