________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः]
जीवानन्दनम् । .
मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका
नामग्राहमपि प्रदर्य नगरान्निःसारितोऽहं शनैः ।। १९ ॥
प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति ।
गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये ॥ २० ॥ मत्सरः--
तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव । कुष्ठः
फलिप्यति तपः किं ते न चेत्सख्यमजीगणः ॥ २१ ॥ ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् ।
अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् ॥ २२ ॥ तस्मादग्लानिरेव क्रियताम् । मत्सरः-का गतिः । (इति कुष्ठेन किंकरेण च सह निष्क्रान्तः।)
शुद्धविष्कम्भकः।
(ततः प्रविशति पाण्डुः कुष्ठश्च ।) पाण्डुः -(मामर्षम् ।)
अग्राह्यमल्पमतिभिः सचिवस्य तस्य
वैयात्यमूर्जितमहो किमिति ब्रवीमि । यः प्रेषयन्किमपि तादृशवाचिकं द्रा
गुन्मस्तकं निजमसूचयदूष्मलत्वम् ॥ २३ ॥ जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः । स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् । किमतः प्रतिविधातव्यम् । कुष्ठः-मम त्वेवं प्रतिभाति ।
मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः ।।
शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् ॥ २४ ॥ पाण्डुः-मैवं वादीः । परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह
For Private and Personal Use Only