SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । न्तव्या । यथा खलु शास्त्रविद आचक्षते । यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति । अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमौपयिकम् । अहमिदानीं तदुचितं प्र. तीकारमालोचयामि। कुष्ठः-आलोचयतु भवान् । आकर्णयिष्यति यदा वृत्तान्तमिदं स मत्सरमुखेन । दीपितरोषो हृदये देवोऽपि समागमिष्यति तदैव ॥ २५ ॥ तस्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः । पाण्डुः-अस्त्वेवम् । भवानवहितस्तिष्ठतु । कुष्ठ:-तथा । (इति निष्क्रान्तः ।) पाण्डु:-कः कोऽत्र भोः । (प्रविश्य ।) गलगण्ड:-आज्ञापय करणीयम् । पाण्डु:-भद्र, अपथ्यतां प्रवेशय । गलगण्डः-(निष्क्रम्य पुनस्तया सह प्रविश्य ।) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो. विज्ञापयति । पाण्डः--(अपथ्यतां प्रति । अपवार्य ।) अये, त्वं क्वचिन्महति राजकार्ये नियोजयितव्यासि । अपथ्यता-अवहिदमि । (क) पाण्डुः-जीवं प्रविश्य तमपथ्येप्वाहारविहागदिषु नियोजय । अपथ्यता-तह । (इति निष्क्रान्ता ।) पाण्डः-(पुरोऽवलोक्य ।) अये, देवः प्राप्तः । गलगण्ड, गच्छाग्रतः । (ततः प्रविशति राजयक्ष्मा मत्सरश्च ।) पाण्डुः -(प्रणम्य ।) राजन्, कथमेतत् । तन्वन्पुनः पुनरपि भ्रुकुटि ललाटे निःसीमनिःश्वसितमुच्चलिताधरोष्ठम् । (क) अवहितास्मि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy