SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः] जीवानन्दनम् । देवस्य शंसति मुखाम्बुजमन्तरङ्गे ___ रूढां रुषा रिपुजने सहसैव चिन्ताम् ॥ २६ ॥ राजा-पाण्डो, विजने प्रासादे समुपविश्य सर्व बोधयिष्यामि । पाण्डुः—गलगण्ड, प्रासादमार्गमादेशय । गलगण्ड:--इत इतो देवः । पाण्डुः-(विलोक्य ।) राजन्, आरुह्यतामयम् । श्रीकण्ठक्षितिधरशृङ्गभङ्गदायी प्रासादः शिखरविराजिहेमकुम्भः । सोपानैः स्फटिकमयैः सुखेन गम्यो रम्योऽयं भवति कलस्वनैः कपोतैः॥२७॥ (सर्वे प्रासादारोहणं नाटयित्वोपविशन्ति ।) राजा-पाण्डो, किं न त्वया श्रुतो मत्सरात्परवृत्तान्तः । पाण्डुः-श्रुतं कुष्ठमुखात्पुरवृत्तं तं विशेषतः श्रोतुमिच्छामि । राजा-पाण्डो, श्रूयतां मत्सरमुखात् । ततः समुचितं प्रतीकारं विधास्यसि । मत्सर, कथय । मत्सरःसंनद्वैः पुररक्षणे परिगतं प्राणादिभिः पञ्चभि. स्तत्तद्देशगतैश्च यत्ननिचयैस्तदुष्प्रवेशं पुरम् । रन्ध्रान्वेषितया कथं कथमपि प्राप्ताः स्म देवाज्ञया ___ यत्रान्तर्मुखतामुपेत्य नियतं जीवस्तपोऽतप्यत ॥ २८ ॥ राजा-के ते प्राणादयः कतिविधाः कुत्र गताः किनामधेयाश्च । कानि च तानि यत्नानि कीदृशानीति सप्रकारमावेदय । मत्सरःहृदयसततावासः प्राणो महाबलविक्रमः सकलमपि तद्यस्यायत्तं पुरं सपरिच्छदम् । कलितनिलयोऽपानो मूलस्थले हितकृद्विभो वसति च समानाख्यो गुल्फे बली घनशूलभृत् ॥ २९ ॥ कि च। कण्ठोपकण्ठे निवसन्नुदानः करोत्यकुण्ठां किल राजभक्तिम् । व्यानस्तु सर्वत्रचरः पुरेऽस्मिन्करोति जीवे सकलानुभूतिम् ॥ ३० ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy