Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
मत्सरः - (आत्मगतम् ।) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः । ज्ञातस्याधुना ममात्मापलापोऽनुचितः । (प्रकाशम् । तस्यैवेयं दशा दैवहतकस्य । कुष्ठः (किंकरं प्रति 1 ) भद्र, सखायं मे मत्सरः । तन्मुञ्चैनम् । (किंकरस्तथा करोति ।)
मत्सर:
कुष्ठ: - सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका । मत्सरः - सखे, सत्यमाह भवान् कापालिकतापिशाचीति । या खलु मामाकृष्य मरणसुखाद्दुरवस्थामिमां प्रापितवती ।
कुष्ठ:
सुखं मरणमप्येवंविधं तव भविष्यति । संगतिः स्वजनेनापि कथं तद्दुर्दशा परम् ॥ ९ ॥ (मत्सरस्तूष्णीमधोमुखस्तिष्ठति ।)
कुष्ठः सखे,
न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् । श्रुत्वा विचारयिष्ये पया चालं मिया चालम् ॥ १० ॥ मत्सरः -- सखे, मम किमुपरोधेन । किमन्यद्वनगमनादृते कर्तव्यम् । कुष्ट:
कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् ।
सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् ॥ ११ ॥ कुष्ठ: - किं शत्रुश्रूपजापार्थं प्रवृत्ताः सखायस्ते निरुद्धाः । मत्सरः -- अथ किम् ।
कुष्ठः - कथय कीदृशो वृत्तान्तः ।
मत्सरः- - (स्वगतम् 1)
कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण । उपजापस्य कथं वा जातामाकाशचित्रतामरिषु ॥ १२ ॥ अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि । तोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम् ॥ १३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368