SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir मत्सरः - (आत्मगतम् ।) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः । ज्ञातस्याधुना ममात्मापलापोऽनुचितः । (प्रकाशम् । तस्यैवेयं दशा दैवहतकस्य । कुष्ठः (किंकरं प्रति 1 ) भद्र, सखायं मे मत्सरः । तन्मुञ्चैनम् । (किंकरस्तथा करोति ।) मत्सर: कुष्ठ: - सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका । मत्सरः - सखे, सत्यमाह भवान् कापालिकतापिशाचीति । या खलु मामाकृष्य मरणसुखाद्दुरवस्थामिमां प्रापितवती । कुष्ठ: सुखं मरणमप्येवंविधं तव भविष्यति । संगतिः स्वजनेनापि कथं तद्दुर्दशा परम् ॥ ९ ॥ (मत्सरस्तूष्णीमधोमुखस्तिष्ठति ।) कुष्ठः सखे, न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् । श्रुत्वा विचारयिष्ये पया चालं मिया चालम् ॥ १० ॥ मत्सरः -- सखे, मम किमुपरोधेन । किमन्यद्वनगमनादृते कर्तव्यम् । कुष्ट: कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् । सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् ॥ ११ ॥ कुष्ठ: - किं शत्रुश्रूपजापार्थं प्रवृत्ताः सखायस्ते निरुद्धाः । मत्सरः -- अथ किम् । कुष्ठः - कथय कीदृशो वृत्तान्तः । मत्सरः- - (स्वगतम् 1) कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण । उपजापस्य कथं वा जातामाकाशचित्रतामरिषु ॥ १२ ॥ अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि । तोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम् ॥ १३ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy