Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-तत्रैवावस्थीयतां भवता । अहमपि प्रकृतमाह्निकं निर्वांगच्छामि । (इति दौवारिकेण सह निष्क्रान्तः ।) (नेपथ्ये ।) अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमित्रैः । रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः ॥ २६ ॥ मत्री-(आकर्ण्य ।) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः । (इति विद्षकेण सह परिक्रामति ।) (ततः प्रविशति देव्या सह राजा ।) राजा-देवि, पश्य पश्य रामणीयकमारामस्य । क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा___ संपूर्णावालपुष्प्यत्फलड्डुहुकदलीदाडिमीमातुलुङ्गा । संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा ॥ २७ ॥ देवी-मलअपवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति । इदो तदो परिव्भमन्तो भमरा कलं कूजन्दि । (क) राजा-युक्तमाह भवती। कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे । नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन ।। २८ ।। देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी । कंदीगममन्त्रपाठखरे पुंस्कोकिले कानन___ श्रीपाणिग्रहमङ्गले सति मधोदेवस्य दीप्तौजसः । वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः प्रक्षिप्तस्य मतिं न किं वितनुते लाजवजस्याधुना ॥ २९ ॥ (क) मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति । इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368