SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम् ॥ २८ ॥ तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डलाटवीविलुठज्जाह्नवीचरबालहंसायमानचन्द्रलेखः कण्ठगतकालकूटद्युतियमुनोभयपार्श्वनिःसरन्निर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीतमिव मृगमेकं संरक्षितुं करे बिभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभञ्जनं टकं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतदवोचत ध्यानेन ते प्रसन्नोऽस्मि वृणीष्व वरमर्पये । इत्युक्तवन्तं तं देवमयाचे रसगन्धकान् ॥ २९ ॥ ततस्तेन दीयमानान्रसगन्धकानग्रहीपम् । पुनश्च प्रणम्य सप्रश्रयमयाचिषम् । देवदेव, फलिन्यः फलहीना याः पुप्पिण्यो या अपुप्पिकाः । गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः ॥ ३० ॥ यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे । इति सोमेनौषधयः संवदन्तीति च श्रुतिः ॥ ३१ ॥ अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणमत्रैव संनिहितः । अतः । शोधयितुं रसगन्धानकर्तुं च रसौषधानि विविधानि । दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण ॥ ३२ ॥ ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः । (इति मन्त्रिहस्तेऽर्पयति ।) मन्त्री--(सहर्ष गृहीत्वा दृष्ट्वा च ।) सप्तकञ्चकादिदोपनिराकरणेन शुद्धानेतानोषधीभिः सह शत्रुजयाय प्रयोक्ष्यामहे । देवी-कित्तिआ ते सत्तुजणा किंणामहेआ अ कम्सि समए पुरोपरोह किदवन्तो । (क) (क) कियन्तस्ते शत्रुजनाः किनामधेयाश्च कस्मिन्समये पुरोपरोधं कृतवन्तः। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy