Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 170
________________ कुमारपाल ॥ ८२ ॥ Jain Education In तदा तस्योर्द्धदेहिकं क्रियते । कियत्तद्धनं ? इति पृष्टेऽतिपुष्कलमित्याहुस्ते महत्तराः । ततः कृपापरिणीतो राजा स्वचे - | तसि चिन्तितवानेवम् आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशलक्षैः, केयं नीतिर्नृपतिहतका यन्मृतस्वं हरन्ति । क्रन्दन्नारीजघनवसनक्षेपपापोत्कटानामाः किं तेषां हृदि यदि कृपा नास्ति तत्किं त्रपाऽपि ॥ १ ॥ ततो भो महत्तराः ! मया मृतस्वग्रहणं तृतीयत्रतप्रतिपत्त्यवसरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य व्यवहारिणो गृहं गृहसारं च विलोकयामः इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तद्गृहमाजगाम राजकुञ्जरः । तदनु सौवर्णकलश परम्पराक्वणत्किङ्किणीक्वाणवा चालितव्योममण्डलकोटिध्वजावलिहस्तिशाला दानशाला तुरगशालादिविराजितं तं कुबेरगृहं विलोक्य विस्मयस्मेरहृदयो महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः । तद्रमणीयतां विलोक्य प्राह नृपः प्रबन्धः । पर्यायस्तुहिमाचलस्य यमकं पीयूषकुण्डस्य च, क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च । वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृहस्यार्हच्चैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ॥ १ ॥ तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्तसौवर्णकलशस्थालारात्रि कमङ्गलप्रदीपादिदेवपू- 8 ॥ ८२ ॥ जोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा गुरुपादकमलमूले, गृहमेधिजनोचितानिमान्नियमान् । प्रतिपद्यते कुबेरो, वैराग्यतरङ्गितस्वान्तः ॥ १॥ For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238