Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 207
________________ SSSSSSSSS गजाः, अष्टादशलक्षपदातयः, अनेके मार्गणगणाः॥ एवं यात्रोत्सवाद्वैते, जायमाने नरेश्वरः । सद्यात्राया विधि मौलं, पप्रच्छ स्वच्छभावतः॥१॥श्रीजैनधर्मधुर्यस्य, गुरुगुरुगुणोज्ज्वलः। यात्राशुद्धविधिं राज्ञः, पुरः प्रोवाच सत्यवाक् ॥२॥यथासम्यक्त्वधारी पथि पादचारी,सचित्तवारी वरशीलभारी। भूस्वापकारी सुकृती सदैकाहारी विशुद्धां विदधाति यात्राम् ॥१॥ गुरूदिताः षविदधद्विशुद्धारी सर्ववैरीरधुरीणवृत्तिः । यात्रार्थमित्थं स्थिरतास्तमेरुनरेश्वरः प्रास्थित तत्त्ववेत्ता ॥२॥ राजानमनुपानत्पादचारिणं दृष्ट्वा गुरुराह-निरुपानत्पादचारात्तव क्लेशो महीपते !। आद्रियस्व तदश्वादि, धत्स्व वोपनही पदोः ॥१॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्य प्राग पारवश्यतः। पादाभ्यां न कियद्धान्त, परं तद्व्यर्थतां गतम् ॥ २॥ अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तभवभ्रान्तिम प्रभ्रंशतेऽभितः ॥३॥ एवं युक्त्या गुरोभक्त्वा, वाहनग्राहणाग्रहम् । अभिग्रही च राजर्षिस्तथैव प्रास्थिताध्वनि ॥४॥ दृष्ट्वा राजगुरु राजराजं च पादचारिणम् । तयोर्भक्तिकृतेऽन्येऽपि, पद्भ्यां चेलुर्मुनीन्द्रवत् ॥५॥ भूयिष्ठत्वेन सङ्घोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चक्रे प्रयाणानि, पञ्चक्रोशानि सोऽन्वहम् ॥ ६॥ स्थाने स्थाने प्रभावना । जिने जिने हेमछत्रचामरादिदानम् । प्रतिप्रासाद स्वर्णरूप्यमुक्ताफलप्रवालपट्टकूलादिध्वजारोपाः। सर्वत्र सर्वेषामनिवारितभोजनानि । संमुखागतानेकनृपव्यवहारिश्रीसद्यपरिधापनानि । प्रतिदिनं द्वासप्ततिसामन्तादिश्रीसङ्घमेलनपूर्वकस्नात्रोत्सवः । प्रतिग्रामनगरादिसाधर्मिकवात्सल्यानि भोजनाच्छादनप्रच्छन्नद्रविणप्रदानादिभिः। प्रतिदिनं भोजनावसरे सीदतः श्रावकलोकान् भोजयित्वा दयादानश्रेयोर्थ बुभुक्षितजनभोजनदानपटहवादनम् । त्रिकालजिनपूजासामायिकप्रतिक्रमणपर्वपौषधादिसर्वक्रियाकलापसत्यापनम् । याच Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238