Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 222
________________ कुमारपाल H १०८ ॥ Jain Education ततो गुरुभिरूचे— राजन् ! निरतिशयकालोऽयम्, यतः श्रीवीरनिर्वाणाच्चतुःषष्टिवर्षैश्चरम केवली जम्बूः सिद्धिं गतः, तेन सह द्वादशवस्तूनि त्रुटितानि - "मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवल सिज्झणा य जंबुंमि वुच्छिन्ना ॥ १ ॥” वर्षसहस्रेण सर्वं पूर्वगतं श्रुतं व्यवच्छिन्नम्, सम्प्रति त्वल्पं श्रुतं तथाऽपि देवतादेशेन विज्ञाय किमपि कथयिष्यत इत्युक्त्वा सिद्धपुरे सरस्वतीतीरेऽष्टमं विधाय सूरिमन्त्राद्यपीठाधिष्ठात्रीं त्रिभुवनस्वामिनीं देवीमाराध्य तन्मुखेन पूर्वभवादि श्रुत्वा राज्ञः पुरः सभासमक्षमेवं प्राहुः । यथा राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशिनृपस्तत्पुत्रो नरवीरः सप्तव्यसनवान् पित्रा निष्काशितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यदा जयताकसार्थवाहस्य मालवकादागच्छन् सार्थः सर्वोऽपि लुण्टितस्तेन । सार्थवाहस्तु पश्चाद्गत्वा मालवेशं संतोष्य तदर्पितसैन्यमानीय पल्लीमवेष्टयत् । तन्महद्वलं ज्ञात्वा नष्टो नरवीरः । तत्पत्नी सगर्भा हता भूपतितो बालोऽपि । पल्यां कीटमारिः कारिताः । ततो मालवके गत्वा राज्ञोऽग्रे स्वरूपे निरूपिते राज्ञा हत्याद्वयं तव लग्नम्, अतोऽद्रष्टव्यमुखोऽसीति निष्काशितः स्वदेशात् । स च सार्थवाहो जयताकः पदे पदे लोकैर्नि न्द्यमानः पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीव्रं तपस्तप्त्वा मृत्वा च जयसिंहदेवोऽजनि, स च हत्याद्वयपापादपुत्रः । यतः - "पसुपक्खिमाणुसणं, बाले जो बिहु विओवए पावो । सो अणवच्चो जायइ, अह जायइ तो विवज्जिज्जा ॥ १ ॥” नरवीरोऽपि देशान्तरं गच्छन् श्रीयशोभद्रसूरीणां मिलितः । प्रोक्तश्च गुरुभिः - भो क्षत्रिय ! रूपसौभाग्यवानाकर्णक For Private & Personal Use Only प्रबन्धः । ॥ १०८ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238