Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 226
________________ कुमारपाल प्रबन्धः । ॥११०॥ स्वर्ण धातवः, अनु चन्दनं काष्ठानि । तथाऽनु पूज्यान् कलाकोविदाः॥ यथा तमोऽन्तको भानुः, सुधा सर्वविषापहा । जगत्संजीवनो मेघस्तथा राज्ञो गुरुभवान् ॥१॥ श्रीगुरुरभ्यधात्-नात्र मन्त्रतत्रभैषज्यप्रभावप्रसरः, किन्तु बुद्धिप्रकारोऽस्ति यदि राज्यमन्यस्य कस्यापि दीयते तदा राज्ञः कुशलं स्यात् , परं नायं धर्मः श्रीजिनधर्मविदाम् । यतः "सबो न हिंसियबो, जह महिपालो तहा उदयपालो। न य अभयदाणवइणा, जणोवमाणेण होयचं ॥१॥" ततोऽस्माकमेव राज्यमस्तु । राजा कर्णी पिधायाभ्यधात् को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भस्मने भस्मसात्कुर्यात्, को हि चन्दनकाननम् ॥१॥राजन् ! महाऽयुक्तमेतत् यदि मम शक्तिर्न भवति । परम्शक्तो हनूमान् यदवन्धयत्स्वयं, विष्णुर्दधौ यच्च शिवास्वरूपम् । सैरन्ध्रिकाकारधरश्च भीमस्तथाऽहमप्यत्र कतौ समर्थः२॥ CAECRECAUCCALCORDCRACC मम मनसीदम् । यतः- मत्री लक्ष्मीय॑यः क्लेशः, साकोऽपि विधुरो जातः । "या लोभायो परद्रोहाद्यः पात्राद्यः परार्थतः । मैत्री लक्ष्मीय॑यः क्लेशः, सा किं सा किं स किं स किम् ॥१॥" ततो राजा शनैः शनैर्व्यथया शून्यचित्तोऽभूत् । राजानं तथाभूतं विलोक्य सर्वः कोऽपि विधुरो जातः । यतः "महतामापदं दृष्ट्वा, को हि दुःखी न जायते । काकोऽप्यन्धत्वमायाति, गच्छत्यस्तं दिवाकरे ॥१॥" श्रीगुरुः सर्वसंमतेन राज्ये स्वयमुपविष्टः । तत्क्षणमेव राज्ञो व्यथा सूरिशरीरे संक्रान्ता । गुरुव्यथां ज्ञात्वा राजा वज्राहत इव गतसर्वस्व इव मनसि खेदमेदुरश्चिन्तयति-स्वाङ्गदाहेऽपि कुर्वन्ति, प्रकाशं दीपिकादशाः । लवणं दह्यते वह्नौ, ॥११०॥ HainEducation For Private Personal use only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238