Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 235
________________ ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे, संकोचं मोचितं दाग किल कमलवनं धाम लुप्तं ग्रहाणाम् । प्राप्ता पूजा जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः, सम्प्रत्यस्तङ्गतोऽसौ हतविधिवशतः शोचनीयो न भानुः॥२॥ इत्याकर्ण्य राजा शोकं किंचित्स्तोकं कृत्वा श्रीगुरूणां गुणान् स्मारं स्मारं सुचिरमिदमवादीत्श्रीसूरीश्वरहेमचन्द्र ! भवतः प्रक्षाल्यपादौ स्वयं, स्वर्धेनोः पयसा विलिष्य च मुहुः श्रीखण्डसान्द्रद्रवैः। अर्चामोऽम्बुदमौक्तिकैयदि तदाऽप्यानृण्यमस्तु व नो, विश्वैश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतूह्यम् ॥१॥ श्रीहेमचन्द्रप्रभुपादपद्मं, वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥२॥ ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमलं राज्ये निवेशयति तावत्किंचित्कृतराजवर्गभेदोऽजयपालो भ्रातृव्यः श्रीकुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञाततत्पपश्चः स्वां विषापहारशुक्तिका कोशस्थां शीघ्रमानयतेति निजाप्तपुरुषानादिदेश । ते च तां पुराऽप्यजयपालगृहीतां ज्ञात्वा तूष्णीं स्थिताः। अत्रान्तरे व्याकुले समस्तराजलोके विषापहारशुक्तेरनागमहेतुं ज्ञात्वा कोऽपि पपाठ कुमरड कुमरविहार एता कांई कराविया । ताहं कुण करिसिइ सार सीपनआवई सइंधणी ॥१॥ इत्याकर्ण्य यावद्राजा विमृशति तावत्कोऽप्यासन्नस्थः प्राह-- कृतकृत्योऽसि भूपाल !, कलिकालेऽपि भूतले । आमन्त्रयति तेन त्वां, विधिः स्वर्गे यथाविधि ॥१॥ द्वयोर्लक्षं लक्षं दत्त्वा शिप्रानागमहेतुं ज्ञात्वा कु.२० Jain Education For Private Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 233 234 235 236 237 238