Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 211
________________ कोत्तर महिमोन्नतिं च मन्यमानश्चेतस्येवमचिन्तयत् ॥ धन्योऽहं मानुषं जन्म, सुलब्धं सफलं मम । यदवापि जिनेन्द्राणां शासनं विश्वपावनम् ॥ १ ॥ या बभूवुर्बतासूर्यपश्याः क्षोणीशवल्लभाः । प्रतिचैत्यं भ्रमन्ति स्म, ता अध्यर्चनकाम्यया ॥ २ ॥ राइयो भोपलदेव्याद्याः, लीलुनृपसुताऽपि च । उद्यापनाद्यैः सत्कृत्यैः, स्वश्रियं तीर्थगां व्यधुः ॥ ३ ॥ महापूजावसरे चारणः प्राह "इकह फुलह माटि देइ जु नरसुरसिव सुहइ । एही करइ कुसाटि वपु भोलिमजिणवरतणी ॥ १ ॥” नवकृत्वः पाठे नवलक्षदानम् । मालोद्घट्टनसमये मिलितेषु श्रीनृपादिसङ्घपतिषु मन्त्री वाग्भट इन्द्रमालामूल्ये लक्षच - तुष्कमुवाच । तत्र च राजाऽष्टौ लक्षान्, मन्त्री षोडशलक्षीं, राजा द्वात्रिंशल्लक्षान्, एवं स्पर्द्धया मालामूल्ये क्रियमाणे कश्चित्प्रच्छन्नदाता सपादकोटीं चकार । ततश्चमत्कृतो नृपः प्रोचे, दीयतां माला, विलोक्यते मुखकमलं पुण्यवतः, इति श्रुत्वा मधुमतीवास्तव्यमन्त्रिहांसाधारूसुतो जगडश्राद्धः सामान्यमात्रवेषाकारः प्रकटीबभूव । तं दृष्ट्वा मन्त्रिणं प्राह नृपो विस्मयाकुलमनाः, मन्त्रिन् ! द्रव्यसुस्थं कृत्वा दीयतां माला । जगडोऽपि राजवाचान्तः कषायितः सपादकोटिमूल्यं रत्नं दत्त्वाऽऽह — श्रीपरमार्हतभूप ! इदं तीर्थं सर्वसाधारणम्, अत्र च द्रव्यसुस्थमन्तरेण न हि कोऽपि वक्ति । ततस्तद्वचसा चमत्कृतो राजा तं श्राद्धं समालिङ्ग्य त्वं मम सङ्के मुख्यः सङ्घपतिरिति समानन्द्य मानं दत्त्वा मालामर्पितवान् । तेनापि अष्टषष्टितीर्थेभ्योऽपि तीर्थभूता स्वमाता परिधापिता ॥ लक्ष्मीवन्तः परेऽप्येवं, बद्धस्पर्द्धाः शुभश्रियः । स्वयंवरण| मालावन्मालां जगृहुरादरात् ॥ १ ॥ सर्वस्वेनापि को मालां, न गृह्णीयाज्जिनौकसि । इह लोकेऽपि यत्पुण्यैः, स्फुरेदि ० १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238