Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 214
________________ कुमारपाल ॥१०४॥ तिशयशालिनी दृष्ट्वा केनेयं मूर्तिः कदा च कारिता ? इति पृष्टा राज्ञा श्रीगुरवः प्राहुरेवम्-इहैव भरतेऽतीतचतुर्विंश प्रबन्धः। तिकायां तृतीयतीर्थकृत्सागरसमये उजयिन्यां नरवाहननृपोऽभूत् । तत्रान्यदा श्रीसागरजिनः समवसृतः । राजा वन्दनाय गतः। धर्मोपदेशश्रवणानन्तरं सभां विलोकयिता केवलिपरिषदृष्ट्वा पृष्टं च स्वामिपार्श्वे-अहं कदा केवली भावी ?। |स्वामिनोक्तम्-आगामिचतुर्विंशतिकायां द्वाविंशतितमजिनस्य नेमेवारके त्वं केवली भावी इति सम्यग् ज्ञात्वा तस्मिन् | 8 भवे श्रीसागरजिनपार्वे व्रतं गृहीत्वा तपस्तप्त्वा मृत्वा च ब्रह्मलोके दशसागरायुरिन्द्रः समुत्पन्नः । तत्र च स्थितेन तेनावधिना पूर्वभवं ज्ञात्वा वज्रमयीं मृत्तिकामानीय पूजार्थ श्रीनेमिबिम्ब कृतम् । स्वर्गे दशसागराणि यावत् पूजितम् । आयुष्प्रान्ते श्रीनेमेरुत्पत्तिस्थाने श्रीरैवताचले दीक्षाज्ञाननिर्वाणकल्याणिकत्रयस्थानं विलोक्य स्वर्गात् श्रीनेमिप्रतिमां गृहीत्वा श्रीरैवते वज्रेणोत्कीर्य भूमिमध्ये पूर्वाभिमुखः प्रासादः कृतः। तत्र चैत्ये रूप्यमये गर्भगृहत्रयं कृत्वा रत्नमणिसुवर्णमयबिम्बत्रयं स्थापितम् । तदने काञ्चनबलानकं कृत्वा वज्रमृत्तिकामयं बिम्बं स्थापितम् । यदुक्तम् "शिखरोपरि यत्राम्बावलोकनशिरस्तु रङ्गमण्डपके । शम्बो बलानकेऽसौ सिद्धिविनायकः प्रतीहारः ॥१॥" ततः स इन्द्रः स्वर्गाच्युत्वा बहुसंसारं भ्रान्त्वा श्रीनेमितीर्थे पल्लिमहापल्लिदेशे क्षितिसारपुरे नरवाहननृपजीवः पुण्यसारनामा नृपोऽजनि । अन्यदा तत्र पुरे श्रीनेमिराजगाम । राजा वन्दितुं ययौ । तत्र देशनां श्रुत्वा श्रावकीबभूव । श्रीनेमिपाचे पूर्वभववृत्तान्तं ज्ञात्वा रैवतके गत्वाऽऽत्मकृतं तद्विम्बं संपूज्य नत्वा स्वपुरे गत्वासुतं राज्ये निवेश्य श्रीनेमिपा व्रतं जग्राह। तपसा केवलं प्राप्य मोक्षं गतः। श्रीनेमे रैवताचले कल्याणिकत्रयं जातम् । ततश्चैत्यं लेप्यमयं च विम्बं लोके पूज्य BREAK श्रीनेमिनाद्विम्व संपादणकत्रयं Join Education Internationa For Private Personel Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238