Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 199
________________ दितवन्तः । राजाऽपि तान् पारितोषिकदानेन समानन्ध पत्राणि पूगशः समानाय्य गुर्वग्रे मुक्त्वा वन्दिताः श्रीहेमसूरिपादाः॥ किमेतदिति पृष्टः सन् , गुरवे राट् व्यजिज्ञपत् । तं वृत्तान्तं चमत्कारकारणं सर्वपर्षदः ॥१॥ हेमाचार्यस्तदाकर्ण्य, कर्णयोरमृतोपमम् । नृपेण पारिपद्यैश्च सहारामं तमागमत् ॥ २॥ एतददृष्टाश्रुतपूर्विणो ब्राह्मणा देवबोध्यादयोऽन्येऽपि लोकाश्च खरताडेषु श्रीताडतां दृष्ट्वा विस्मयाश्चर्यमया बभूवांसः। तदा च हेमाचार्यों जैनमतमुपश्लोकयितुमिदमाह__अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्यच्छत्याऽत्र युगेऽपि ताडतरवः श्रीतालतामागताः । श्रीखण्डस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरभितां दुर्गन्धयः प्रामुयुः॥१॥ एवं त्रिभुवने जिनधर्मसाम्राज्यं विधाय गुरवो धर्मावासमलञ्चक्रुः । राजर्षिरपि एकोपवासावर्जितशासनदेवताक्लुप्तमहिमाभ्युदयविशेषप्रथितप्रतापप्रभाववैभवः स्वसौधमागत्य समहोत्सवं पारणं कृतवान् ॥ ततस्तदुद्भवनैकैर्विशालैः कोमलैदलैः । लिलिखुलेखाग्रण्यो, ग्रन्थान् प्रभुकृतान् सुखम् ॥१॥ तथा चतुर्विधश्रीसद्धेऽपि प्रत्यहं पूजासम्मानदानादिविधी |निस्सीम एव विभवव्ययः॥एवं क्षेत्रेषु सर्वेषु, वपन् लक्ष्मीमनेकधा। महाश्रावकतां लोकोत्तरामाप नृपोत्तमः॥२॥अथान्यदा___ अन्नदिणमि मुणिंदो, कुमरविहारे कुमारपालस्स । चउविहसंघसमेओ, चिइ धम्मं पयासंतो॥१॥ बहुविहदेसे हिंतो, धणवंतो तत्थ आगओ लोओ। पट्टेसूयकणयविभूसणेहिं काऊण जिणपूयं ॥२॥ कणयकमलेहिं गुरुणो, चललणजुयं अच्चिऊण पणमेइ । तत्तो कयंजलिउडो, नरवइणो कुणइ पणिवायं ॥ ३ ॥ तो पत्थिवेण भणियं, किमत्थमित्था गओ इमो लोओ। एक्केण सावएणं, भणियमिणं सुण महाराय !॥ ४ ॥ ANCIENCEROSAROSAROSCORENCE Jain Education International For Private Personal use only www.ainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238