Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 191
________________ मनुष्यादिभिर्विधाप्यन्ते । मङ्गल्यकारिताया गृहेषु गृहद्वारपट्टेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव, अध-10 स्तिर्यगू लोकावस्थितेषु जिनभवनेषु प्रवर्तन्ते इति । नहि लोकत्रयेऽपि तत्स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितं प्रतिभासते, षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखननदलवाटकान-1 यनगर्तापूरणेष्टिकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति, उच्यते-यः आरम्भपरिग्रहप्रसक्तः स कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्यय श्रेयानेव। यतः "आरंभपसत्ताणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूवदिहंतो ॥१॥" न च धर्मार्थ धनोपार्जन युक्तम् । यतः "धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाच्च पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥” इति ॥ | न च वापीकूपतडागादिखननवदशुभोदर्कमेतत् , अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिहेतुतया शुभोदर्कमेव ब्रह्मेन्द्रादिवत् । यदाह ___ “शिखरोपरि यत्राम्बाऽवलोकनशिरस्तु रङ्गमण्डपके। शम्बो बलानके स्यासिद्धिविनायकः प्रतीहारः॥१॥" A श्रीब्रह्मेन्द्रेण रैवतके पूर्वाभिमुखः प्रासादोऽकारीति । षट्रकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-- -57075555 Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238