Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 187
________________ जिनभवननिर्मापणविधिरेवम्-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति४ संधानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्व जिनभवनविधापनम् । विशेषतः सति विभवे भर तादिवद्रत्नशिलादिभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालावलानकस्य शालिभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकाऽगुरुप्रभृतिधूपसमुच्छलद्भूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिवद्धकिङ्किणीरणकारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बरमहिनो निरन्तरतालारसहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याभिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । अथ प्रचुरतरविभवविनियोगाऽयोगे स्ववित्तानुसारेणापि जिनभवनं कारयितव्यमेव । यतः "पढम चिय जिणभवणं, नियदबनिओयणेण काय । जम्हा तं मूलाओ, सुहकिरियाओ पवत्तंति ॥१॥ जिणबिम्बपइटाओ, सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्टाहियाओ निच्चं च पूयाओ ॥२॥ एयं संसारोदहिमज्झनिबुडाण तारणतरई । जं दसणस्स सुद्धी, एएण विणा न संभवइ ॥३॥ तेसिं अन्नेसि चिय, जीवाणं विरमणं च पावाओ। पाणवहाईयाओ, संजायइ तत्थ परिसुद्धं ॥४॥" Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238