Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Adriana Shri Kailassagersuri Gyanmandie
४ तथाहि-अनन्तानुवन्धिनां वेदकसम्यक्त्वस्य भयजुगुप्सयोष कादाचित्क उदयो भवति, यतः सम्यक्त्वप्रभावेणोद्वलितानामनन्तानुब|न्धिनां भूयोऽपि मिथ्यात्वप्रतिपत्तौ तन्महिम्नोपचितानामावलिकामात्रमुदयो न भवति, शेषकालं तु भवति । अविरतसम्यग्दृष्टयादी| नामप्यौपशमिकसम्यक्त्ववतां क्षायिकसम्यक्त्ववतां वा वेदकसम्यक्त्वस्योदयो न भवति, शेषाणां तु भवति । भयजुगुप्सयोस्त्वध्रुवो-|
दयत्वादेव मिथ्यादृष्टयादिष्वपूर्वकरणान्तेषु कदाचिदुदयो भवति कदाचिन्नत्येककस्मिन् गुणस्थाने उदयास्तद्भाविभङ्गचतुर्विशतयश्च | | बहुधा भवन्ति । तत्र मिथ्यादृष्टौ सप्ताष्टौ नव दश चेति चत्वार उदया भवन्ति । तत्र मिथ्यात्वमनन्तानुबन्धिवर्जा अन्यतमे त्रयः क्रोधा |दिकाः त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्युगलमित्येतासां सप्तानां नियमादुदयो भवति । अत्र द्वाभ्यां युगलाभ्यां त्रिभिः | देश्चतुर्भिश्च क्रोधादिभिः परस्परं ताडने भङ्गाश्चतुर्विंशतिः । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुवन्धिनि वा प्रक्षिप्तेष्टानामुदयः, अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः। ननु सप्तोदयेऽष्टकोदये वा क्वचिन्मिथ्यादृष्टिरनन्तानुव
मध्युदयरहितः कथं प्राप्यते इति चेद् ,उच्यते-यः कश्चित्सम्यग्दृष्टिः सननन्तानुबन्धिविसंयोजनयैव विश्रान्तो मिथ्यात्वादिक्षयाय नोयु. Iक्तवान् तस्य कालान्तरे मिथ्यात्वं गतस्य तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनां बन्धे प्रवर्त्तमाने बन्धावलिका यावन्नातिकामति तावदुदयो
न भवति, बन्धावलिकायां त्वतिक्रान्तायां भवेदपि । अथ कथं बन्धावलिकातिक्रमेऽप्युदयः संभवी? जघन्यतोऽप्यनन्तानुवन्धिनामबा
धाकालस्यान्तर्मुहुर्तमानत्वात् , नैष दोषः, यतो बन्धसमयादारभ्य तेषां सत्ता भवति, सत्तायां च सत्यां बन्धकालं यावत् पतद्ग्रहता, पितद्ग्रहतायां च सत्यां शेषसजातीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तं च पतद्ग्रहप्रकृतिरूपतया परिणमते । ततः संक्रमावलिकायामती
| तायामुदयो भवतीति बन्धावलिकायामतीतायां तदभिधानमविरुद्धम् । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनो
RoaseDics
For Private and Personal Use Only

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319