Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मप्रकृतिः ॥१४९॥ तिरश्वां बन्धादिस्थानानि संवेधश्च | एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राद्ये द्वे द्विचरमसमयं यावल्लभ्येते, चरमसमयेऽष्टौ । नवोदये त्रीणि सत्तास्थानानि-अशीतिः षट्सप्ततिनव च । तत्राये द्वे द्विचरमसमयं यावत् , चरमसमये नव । तदेवं गुणस्थानेषु नाम्नो बन्धोदयसत्तास्थानानि अपश्चितानि । ____ अथ गतिषु प्रपञ्च्यते-तत्र नैरयिकाणां द्वे बन्धस्थाने-एकोनत्रिंशत्रिंशच । तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यपश्चेन्द्रियप्रायोग्या वा, त्रिंशत्तिर्यपञ्चेन्द्रियप्रायोग्या सोद्योता, मनुष्यगतिप्रायोग्या तु जिननामसहिता । भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। उदयस्थानानि पञ्च-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । एतानि सप्रभेदानि प्राग्वद्वाच्यानि । त्रीणि सत्ता| स्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकोननवतिबद्धजिननाम्नो मिथ्यात्वगतस्य नरकाभिमुखस्यावसेया। त्रिनबतिस्तु न संभवति, जिनाहारकसत्कर्मणो नरकेष्वनुत्पादात् । अथ संवेध उच्यते-नैरयिकस्य तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बध्नतः पञ्चो | दयस्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येकं वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धा| संभवादेकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्चस्वप्युदयस्थानेषु त्रीण्यपि ९२-८९-८८ सत्तास्थानानि भवन्ति । जिननामसत्कर्मा नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकोनत्रिंशतं, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं बध्नाति, जिननाम्नोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यां सोद्योतां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्राग्वत् । मनुष्यगतिप्रायोग्यां जिननामसहितां बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकं सत्तास्थानं-एकोननवतिः। सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत् । अथ तिरश्चां बन्धादिस्थानान्युच्यन्ते तत्र । तिरथा षट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंश ५१४९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319