Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥ १५०॥
SHIVA
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ । तथाहि त्रयोविंशतिपञ्चविंशतिषड्विंशत्ये कोन त्रिंशत्रिंशद्बन्धेषु चत्वारिंशत्सतास्थानानि, अष्टाविंशतिबन्धे चाष्टादश ।
अथ मनुष्यगतौ बन्धादिस्थानान्युच्यन्ते । मनुष्याणामष्टौ बन्धस्थानानि त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशदेका च । सर्वाण्यप्येतानि प्राग्वत्सभेदानि वाच्यानि, मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसंभवात् । एकादशोदयस्था नानि - विंशतिरेकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ च । एतानि च स्वभावस्थमनुष्य वैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरस योगिकेवलिनोऽधिकृत्य प्राग्वद्भावनीयानि । एकादश सत्तास्थानानि - त्रिनवतिद्विनवति| रेकोननवतिरष्टाशीतिः षडशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्य द्विसंभवात् ।
अथ संवेध उच्यते । तत्र मनुष्यस्य त्रयोविंशतिबन्धकस्य सप्तोदयस्थानानि - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशत् (च), शेषाः केवल्युदया इति न घटन्ते । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ । एकैकस्मिँचत्वारि सत्तास्थानानि - द्विनवतिरष्टाशीतिः पडशीतिरशीतिथ, नवरं पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने - द्विनवतिरष्टाशीतिश्च । शेषाणि तु सत्तास्थानानि तीर्थकरक्षपकश्रेणि केवलिशेषगतिप्रायोग्यानीति न संभवन्ति, सर्व संख्यया चतुर्विंशतिः । एवं पञ्चविंशतिपद् विंशतिबन्धकानामपि वाच्यम् । मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यां चैकोनत्रिंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टाविंशतिबन्धकानां सप्तोदयाः - एकविंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् (च) । तत्रैकविंशतिषद्
For Private and Personal Use Only
मनुष्यगतौ बन्धादिस्थानानि संवेधव
॥ १५०॥

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319