Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra 22:2 www.kobatirth.org ननवतिद्विनवतिस्त्रिनवतिश्च । एकविधबन्धकस्यापि त्रिंशदुदये चत्वार्यपि सत्तास्थानानि, अष्टाविंशत्यादि २८-२९-३०-३१ बन्धकानां प्रत्येकं देवगतिप्रायोग्यबन्धव्यवच्छेदे सत्येकविधबन्धकभावात्, अष्टाविंशत्यादिबन्धकानां च यथाक्रममष्टाशीत्यादिस्थान सद्भावात्, एकविधबन्धे चतुर्णामपि प्राप्तेः । Acharya Shri Kailassagarsuri Gyanmandir अथानिवृत्तिवादरस्य बन्धादिस्थानान्युच्यन्ते - अस्यैकं यशः कीर्त्त्याख्यं बन्धस्थानम्, एकत्रिंशदात्मकमुदयस्थानम्, अष्टौ सत्तास्थानानि - त्रिनयतिर्द्विनवतिरे कोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पद्मप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वार्युपशमश्रेण्यां क्षपकण्यामपि नामत्रयोदशकाक्षयपर्यन्तं, क्षीणे च तस्मिन्नुपरितनानि चत्वार्येव भवन्ति । अत्र बन्धोदयस्थान भेदाभावात्संवेधाभावः । सूक्ष्मसम्परायस्य बन्धादिस्थानान्यनिवृत्तिबाद वज्ज्ञेयानि, अत ऊर्ध्वं बन्धाभावः । तत्रोपशान्तमोहे उदयस्थानं त्रिंशदात्मकमेकं, सत्तास्थानानि च त्रिनवत्यादीनि ९३-९२-८९-८८ चत्वारि । क्षीणकषायस्यैकमुदयस्थानं त्रिंशत् । अत्र भङ्गाश्चतुर्विंशतिरेव, | आद्यसंहनिन एव क्षपक श्रेण्यारंभसंभवात् । तत्रापि तीर्थकरनामसत्कर्मणः क्षीणमोहस्य सर्व संस्थानादि प्रशस्तमेव । सत्तास्थानान्यशीत्यादीनि ८०-७९-७६-७५ चत्वारि । तत्रकोनाशीतिः पञ्चसप्ततिश्वातीर्थकरसत्कर्मणो, अशीतिः षट्सप्ततिश्व तीर्थकरसत्कर्मणः । सयोगिकेवलिनोऽष्टावुदयस्थानानि - विंशतिरेकविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेको नत्रिंशत्रिंशदेकत्रिंशच्च । एतानि सामान्य चिन्तायां सप्रपञ्चं विवृतानीति न भूयो वित्रियन्ते । चत्वारि सत्तास्थानानि - अशीतिः षट्सप्ततिरेकोनाशीतिः पञ्चसप्ततिः । अथ संवेधो वाच्यः, स च प्राग्वज्ज्ञेयः । अयोगिकेवलिनो द्वे उदयस्थाने नवाष्टौ च । तत्राष्टोदयोऽतीर्थकुद योगिनः, नवोदयश्च तीर्थहृदयोगिनः । षट् सत्तास्थानानि - अशीतिरेकोनाशीतिः पद्मप्ततिः पञ्चसप्ततिर्नवाष्टौ च । तत्राष्टोदये त्रीणि सत्तास्थानानि - For Private and Personal Use Only SachNac

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319