Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GDSGGC दनार्थ कृतानि तानि पूर्वस्पर्धकान्यभिधीयन्ते । तानि च स्थूलानि । यानि पुनरधुना कर्तुमारभते तानि सूक्ष्माणि । न चैवंभूतान्यनादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यन्ते । तत्र पूर्वस्पर्धकानामधस्तन्यो याः प्रथमादिवर्गणाः सन्ति तासां ये वीर्याविभागपलि | च्छेदास्तेषामसंख्येयान् भागानाकर्षति, एकमसंख्येयं भागं मुञ्चति । जीवप्रदेशानामपि चैकमसंख्येयं भागमाकर्षति, शेष सदं स्था-13 पयति । एष बादरकाययोगनिरोधप्रथमसमयव्यापारः । तथा च कर्मप्रकृतिप्राभृतं-"पढमसमप अपुवफगाणि करेइ पुवफडगाणं | 24 हेट्ठा आइवग्गणाण अविभागपरिच्छेयाणमसंखेज्जे भागे ऊकहइ जीवपएसाणं च असंखेज्जइमं भागमोकहुइ त्ति”। ततो द्वितीयसमये प्रथमसमयाकृष्टजीवपदेशासंख्येयभागादसंख्येयगुणं भागं जीवप्रदेशानामाकर्षति तावतोऽसंख्येयान् भागानाकर्षतीत्यर्थः। वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टाद्भागात्संख्येयगुणहीनं भागमाकर्षति । एवं प्रतिसमयं समाकृष्य समाकृष्य तावदपूर्व-16 | स्पर्धकानि करोति यावदन्तर्मुहूर्तचरमसमयः । कियन्ति पुनः स्पर्धकानि करोतीति चेदुच्यते-श्रेणिवर्गमूलस्यासंख्येयभागमात्राणि । अपूर्वस्पर्धककरणान्तर्मुहूर्तानन्तरसमय एव च किट्टीः कर्तुमारभते । ताश्चान्तर्मुहूतं यावत्करोति । उक्तं च-"नाशयति काययोग स्थूल ) 0/ सोऽपूर्वफडकीकृत्य । शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥' अथ किट्टिरिति कः पदार्थः ? उच्यते-एकोत्तरवृद्धि | च्यावयित्वाऽनन्तगुणहीनकैकवर्गणास्थापनेन योगस्याल्पीकरणं । तत्र पूर्वस्पर्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसंख्येयान् भागानाकर्षति एकमसंख्येयभाग स्थापयति । जीवप्रदेशानामपि चैकमसंख्येयभागमाकर्षति, शेषं सर्व स्थापयति । एष किट्टीकरणप्रथमसमयव्यापारः । ततो द्वितीयसमये प्रथमसमयाकृष्टवीर्याविभागपरिच्छेदभागादसंख्येयगुणहीनं | वीर्याविभागपरिच्छेदानां भागमाकर्षति । जीवप्रदेशानां तु प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागादसंख्येयगुणभागं तावतोऽसंख्येयान Dec PADRENDS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319