Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महतीमनुग्रह बुद्धिमास्थाय तत्रान्यत् पदमागमानुसारि प्रक्षिप्य कथयन्तु यथेदमंत्र पदं समीचीनं नेदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्तव्यः । अत्र 'इय कम्मपयडीओ' इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या । दृष्टिवादो हि भगवता साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्राभृतम्, तस्माचेदं प्रकरणमुद्धृतमिति परम्परया सर्वविन्मूलम् ॥५६॥
(उ० ) – अथाचार्य औद्धत्यं परिहरन् बहुश्रुतानां प्रकरणार्थपरिभावने प्रार्थनां च कुर्वन्नत्र प्रकरणे उपादेयता बुद्धिमाधातुं परम्परया सर्वविन्मूलकतामाह- अल्पमतिनाऽपि सतैवमुक्तप्रकारेण गुरुचरणकमलं पर्युपासमानेन मया यथा श्रुतं तथा कर्म प्रकृतेर्दृष्टिवादेकदेशच - तुर्दश पूर्वस्थानेक वस्तुसमन्विताग्रायणीयाभिधद्वितीय पूर्वस्थाविंशतिप्राभृतपरिमाणपञ्चमवस्त्वेकदेशं चतुर्विंशत्यनुयोगद्वारमय कर्म प्रकृत्याख्यचतुर्थप्राभृतादिदं प्रकरणं नीतमाकृष्टं तदत्र यत्किमपि स्खलितमनाभोगकृतं भवेत् कृतप्रयत्नस्यापि छद्मस्थस्यावरण सामर्थ्यादनाभोगसंभवात्, तच्छोधयित्वाऽपनीय ये वरा उत्कलितबुद्धयतिशया दृष्टिवादज्ञास्ते प्रसादमास्थाय श्रुतानुसारि पदान्तरं प्रक्षिप्य कथयन्तु 'यथेदमंत्र पदं सम्यक्, न त्विदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्त्तव्य इति प्रार्थना ॥ ५६ ॥
•
जस्स वरसासणावयवफरिसपविकसिय विमलमइकिरणा । विमलेंति कम्ममइले सो मे सरणं महावीरो ॥
(चू० ) - 'जस्से' इ- महावीरो (र) स (स्स) 'बज्ज (र) 'त्ति - वरं पहाणं सासणं तस्स अवयवेहिं पुट्ठा गमिया ( पविगसिया) विमलमत्तिकिरणा होंति (ते) विमला (ली) करेंति कम्मेण मतिलिया कम्ममइला ते कम्ममइले णद्ध (ज) ति सं सासणं जस्स 'णे' (मे) त्ति मज्झं 'सरणं'ति आहारे महावीरो ति ॥५७॥
For Private and Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319