Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्हन्तो मङ्गल मे स्युः सिद्धाच मम मङ्गलम् / मङ्गलं साधवः सम्यग् जैनो धर्मश्च मङ्गलम् // 7 // // इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका // | (उ०)-इह शास्त्रस्यादावविघ्नपरिसमाप्तये, मध्ये शिष्यप्रशिष्यादिपरम्परागमानयनस्थैर्याय, आगन्तुकविघ्नविनाशायेत्यन्ये, पर्यन्ते | |च पशिष्यादिभिरवधार्यमाणस्य शास्त्रस्य तचेतसि सुप्रतिष्ठितत्वभावनायाविच्छेदायेत्यन्ये, मङ्गलमवश्यमभिधातव्यम् / तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुयं' इत्यायुक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुओगधरे पणिवयामि' इति, संप्रति पुनः पर्यवसानमङ्गलमाह| यस्य वरमनुत्तरं यच्छासनं तदवयवस्योदयगिरिशिखररूपस्य स्पर्शात् प्रकर्षेण विकसिता उद्घोधमापन्ना विमला मिथ्यात्वतमोमलर-1 हिता मतिकिरणा ज्ञानसूर्याः कर्ममलिनान् जीवान् विमलयन्ति अविद्यारजनीविनाशनेन स्फुटप्रकाशान् कुर्वन्ति स भगवान् महावीरो | वर्धमानखामी खप्रणीतशासनावयवस्पर्शनमात्रेण लोकानामनन्तज्ञानसूर्योत्पादकत्वेनाचिन्त्यातिशयः परमब्रह्मा मे मम संसारभयभीतस्य शरणं परित्राणहेतुः // 57 // // अथ टीकाकृत्प्रशस्तिः // ज्ञात्वा कर्मप्रपञ्चं निखिलतनुभृतां दुःखसंदोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश। .. अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः // 1 // सरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणो, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासने मेजुषि / ISGG Sasa Saisen For Private and Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319