Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
लKCARDiscera
www.kabatirth.org वनाशयति यावत्सयोग्यवस्थाचरमसमयः । तस्मिंश्च चरमसमये सर्वाण्यपि कर्माण्ययोग्यवस्थासमस्थितिकानि जातानि। येषां च कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विधत्ते सामान्यतः सत्ताकालं प्रतीत्यायोग्यवस्थासमानामिति । तस्मैिश्च सयोग्यवस्थाचरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानं, सर्वाः किट्टयः, सद्वेद्यबन्धो, नामगोत्रयोरुदीरणा, योगः, शुक्ललेश्या, स्थित्यनु-10 भागघातश्चेति सप्त पदार्था युगपद्वयवच्छिद्यन्ते । ततोऽनन्तरसमयेऽयोगिकेवली भवति । स च कर्मक्षपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति । असावयोगिकेवली स्थितिघातादिरहितो यान्युदयवर्तीनि कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति । यानि तु तदानीमनुदयवन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद्याति यावदयोग्यवस्थाद्विचरमसमयः । तस्मिंश्च द्विचरमसमये देवद्विकशरीरपञ्चकबन्धनपञ्चकसङ्घातपञ्चकसंस्थानषदकाङ्गोपाङ्गत्रयसंहननषट्कवर्णादिविंशतिपराघातोपघातागुरुलघुच्छ्वासविहायोगतिद्विकस्थिरास्थिरशुभाशुभसुखरदुःस्वरदुर्भगप्रत्येकानादेयायशःकीर्तिनिर्माणापर्याप्तकनीचैर्गोत्रसातासातान्यतरानुदितवेदनीयरूपाणि द्विसप्ततिः कर्माणि खरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति, चरमसमये स्तिबुकसंक्रमेणोदयवतीषु | मध्ये संक्रम्यमाणत्वात् । चरमसमये चान्यतरवेदनीयमनुष्यत्रिकपश्चेन्द्रियजातित्रससुभगादेययशः कीर्तिपर्याप्तवादरतीर्थकरोच्चैर्गोत्ररूपाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः। अन्ये त्याहुः-मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेद उदयाभावात् , उदयवतीनां हि | स्तिबुकसंक्रमाभावात् स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, आनुपूर्वीणां च चतसृणामपि क्षेत्रविपाकतयाऽपान्तरालगतावेवोदय इति न भवस्थस्य तदुदयसंभव इत्ययोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः। तन्मते द्विचरमसमये त्रिसप्ततेः, चरमसमये च द्वादशानां सत्ताव्यवच्छेदः । ततोऽनन्तरसमये कर्मबन्धविमोक्षलक्षणसहकारिसमुत्थख
For Private and Personal Use Only

Page Navigation
1 ... 316 317 318 319