Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कर्म प्रकृतिः ॥ १६२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(मलय ० ) -- इह शास्त्रस्यादौ मध्येऽवसाने च मङ्गलमवश्यमभिधातव्यम् । आदिमङ्गलाभिधाने हि शास्त्रमविघ्नेन परिसमाप्तिमियर्ति, | मध्यमङ्गलाभिधानतश्च शिष्यप्रशिष्यादिपरम्परागमनेन स्थैर्यमाधत्ते, पर्यन्तमङ्गलाभिधानप्रभावतः पुनः शिष्य प्रशिष्यादिभिरवधार्यमाणं | तेषां चेतसि सुप्रतिष्ठितं भवति । तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुर्य' इत्याद्युक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुयोगधरे पणिवयामि' इति, सम्प्रति पुनः पर्यवसानमङ्गलमाह - 'जस्स'ति । यस्य - भगवतो महावीरस्य 'वरम्' - अनुत्तरं यच्छासनं तदवयवसंस्पर्शात् ये प्रकर्षेण 'विकसिता' - उद्बोधं गता 'विमला' - अपगतमिथ्याज्ञानत्वरूपमला 'मतिकिरणा'- मतिरश्मयः ते 'कर्ममलिनान्'कर्मतमोमलीमसान् असुमतो 'विमलयन्ति' - विमलीकुर्वन्ति । 'स' - भगवान् महावीरो वर्धमानस्वामी 'मे' - मम संसारभयभीतस्य 'शरणं' - परित्राणहेतुः, नान्य इति ॥५७॥
॥ अथ टीकाकृत्प्रशस्तिः ॥
कर्मप्रपञ्च जगतोऽनुबन्धक्लेशावहं वीक्ष्य कृपापरीतः । क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिनवर्धमानः ॥ १ ॥ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनसिद्धान्तभास्करम् ॥२॥ पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धृता येन । कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यभावार्था || ३ ||
| ततः क्व चैषा विषमार्थयुक्ता, क्व चाल्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसंप्रदायात्, किञ्चित्स्फुटार्थं विवृता मयैषा ॥४॥ युग्मम् | कर्मप्रकृतिनिधानं बह्रथ येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूर्णिकृते नमस्तस्मै ॥ ५ ॥ एनामतिगभीरां कर्मप्रकृतिं विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥ ६ ॥
For Private and Personal Use Only
प्रशस्तिः
॥१६२॥

Page Navigation
1 ... 315 316 317 318 319