Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya, Shri Kailassagarsuri Gyanmandit
| भगसुखरादेययश कीर्तिनिर्माणतीर्थकरोच्चर्गोत्ररूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेनोपह-11 न्यते । समुद्घातमाहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया (3) अनन्ताश्च भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान भागान् हन्ति, एकं मुश्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागधातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽवशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुश्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभाग मुश्चति। अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः। ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः। चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रम संख्येया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थितेः संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् | हन्ति, एक मुश्चति । एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्डकानुभागकण्डकघातनात् । 1. अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहर्तन कालेन विनाशयति । षष्ठादिषु च समयेषु कण्डकस्यैकैकं शकलं ||
MOMeGODDESS
HORORSCCEIODGट्र
For Private and Personal Use Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319