Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
charya Shri Kailassagersuri Gyanmandir
www.kobatirth.org
योगनिरोधः
कर्मप्रकृतिः ॥१६॥
|भागानाकर्षतीत्यर्थः । एवं तावत् किट्टीः करोति यावदन्तर्मुहूर्तचरमसमयः । तत्र प्रथमसमयकृताभ्यः किट्टिभ्यो द्वितीयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः । गुणकारश्च पल्योपमासंख्येयभागः । एवं शेषेष्वपि समयेषु भावनीयम् । तथा चोक्तं कर्मप्रकृतिप्राभृते| "इत्थं अंतोमुहत्तं किट्टीओ करेइ असंखेज्जगुणहीणाप सेढीए जीवपएसे य असंखेज्जगुणाए सेढीए ऊकडइ, किट्टीगुणकारो पलिऊवमस्स असंखेज्जइभागो त्ति” | प्रथमसमयकृताश्च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः। एवं द्वितीयादिसमयेष्वपि प्रत्येकमवगन्तव्याः। सर्वा अपि च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः पूर्वस्पर्धकानामपूर्वस्पर्धकानां चासंख्येयभागमात्राः। किट्टिकरणावसानानन्तरं च पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च नाशयति । तत्समयादारभ्य चान्तर्मुहूतं यावत् किट्टिगतयोगो भवति । तथा चोक्तं-"किट्टिकरणे णिहिए तओ से काले पुब्धफड़गाणि अपुब्वफडगाणि च णासेइ अंतोमुहृत्तं किट्टिगयजोगो भवइ ति"।न चात्र किञ्चिदपि करोति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहूर्त्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि । ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहूर्त्तमात्रं नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्ममनोयोगमन्तर्मुहूर्त्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहर्त्तमात्रमास्ते । ततः सूक्ष्मकाययोगबलात्सूक्ष्मकाययोगमन्तर्मुहूत्तेन निरुणद्धि । त च निरन्धानः सूक्ष्मक्रियाप्रतिपातिध्यानमारोहति, | तत्सामर्थ्याच्च बदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदेशो भवति । आह च-"सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्मक्रियस्तदा किट्टिगतयोगः ॥१॥” तमपि स योग सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतम् । सूक्ष्मक्रियः | | मप्रतिपात्युपयाति ध्यानममनस्कम् ॥२॥” इत्यादि । सूक्ष्मकाययोगं च निरुन्धानः प्रथमसमये किट्टीनामसंख्येयान् भागानाशयति, एकस्तिष्ठति । द्वितीयसमये तस्यैवैकस्य भागस्योद्धरितस्य सम्बन्धिनोऽसंख्येयान् भागान्नाशयति एक उद्धरति । एवं समये समये किट्टीस्ता
MODIODNEKARODOD
॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319