Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः
योगनिरोधः
॥१५९॥
HORSEEGHD
तावदुत्किरति यावदन्तर्मुहर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति । एवमान्तमौहर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च तावद्घातयति यावत्सयोग्यवस्थाचरमसमयः। सर्वाण्यपि चामुनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानि । अयं च समु. | घातविधिरावश्यकचूर्ण्यनुसारेणाभिहितः । यस्य तु केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं स समुद्घातं न गच्छति ।।
गत्वाऽगत्वा वा समुद्घातं लेश्यानिरोधार्थ योगनिमित्तबन्धनिरोधार्थ च योगनिरोधमवश्यं कुरुते । उक्तं च-"स ततो योगनिरोधं | करोति लेश्यानिरोधमभिकाङ्कन् । समयस्थितिकं च बन्धं योगनिमित्त विनिरुरुत्सन् ॥१॥ समये समये कर्मादाने सति संततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नोकर्मणा हि वीर्य योगद्व्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥३॥' अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयबहिर्भावेन द्रष्टव्या । योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबलादन्तर्मुहर्तमात्रेण वाग्योग निरुणद्धि । तनिरोधानन्तरं चान्तर्मुहर्त स्थित्वा चादरकाययोगोपष्टम्भादेव बादरमनोयोग मन्तर्मुहुर्तमात्रेण निरुणद्धि । उक्तं च-"बादरतन्वा पूर्व वाङ्मनसे निरुणद्धि । आलम्बनाय करणं तदिष्यते तत्र वीर्यवतः ॥१॥" बादरमनोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहूर्त स्थित्वोच्छ्वासनिःश्वासावन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहत्तं स्थित्वा | सूक्ष्मकाययोगवलाद्वादरकाययोग निरुणद्धि, सति चादरयोगे सूक्ष्मयोगस्य निरोधुमशक्यत्वात् । आह च-"बादरतनुमपि निरुणद्धि | ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहुः-"बादरकाययोगबलाद्वादरकाययोगं
निरुणद्धि, यथा कारपत्रिकः स्तम्मे स्थितस्तमेव स्तम्भ छिनत्ति" । तदत्र तच्चमतिशायिनो विदन्ति । बादरं च काययोग निरुन्धानः छा पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति । तत्र यानि तस्मिन् भवे पर्याप्तिपर्यायपरिणतेन सता जीवेन पूर्व कायादिव्यापारनिष्पा
asasBasse
॥१५९॥
For Private and Personal Use Only

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319