Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmandir
DISCORPOS2
www.kobatirt.org सूक्ष्मैकेन्द्रियेषु भवन्ति । असंज्ञिसंज्ञिनोरपि लब्ध्यपर्याप्तयोरेतान्येव पञ्च बन्धस्थानानि, अपर्याप्तानां सर्वेषां तियअनुष्यप्रायोग्यस्यैव बन्धात् । तानि च पञ्च बन्धस्थानानि तिर्यमनुष्यप्रायोग्याणि यथाऽधस्तादुक्तानि तथा भाव्यानि । सूक्ष्मबादरैकेन्द्रिययोरपर्याप्तयो-13 रेकविंशतिश्चतुर्विंशतिश्चेति द्वावुदयो। तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरिय-तिर्यग्द्विकं तैजसकार्मणे अगुरुलघु वर्णचतुष्टयमेकेन्द्रियजातिः स्थावरसूक्ष्मापर्याप्तानि स्थिरास्थिरे शुभाशुभे दुर्भगमनादेयमयशःकीर्तिनिर्माणमिति । एषा चापान्तरालगतिस्थस्याप्यते । अत्र चैक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामनुदयात् । बादरापर्याप्तस्याप्पेषेवैकविंशतिः, नवरं सूक्ष्मस्थाने बादरं वाच्यं, तत्राप्येक एव भङ्गः । उभयोरपि तस्यामेकविंशतौ औदारिकशरीरहुण्डोपघातप्रत्येकसाधारणैकतररूपप्रकृतिचतुष्टयप्रक्षेपे तिर्यगानुपूर्व्याश्चापनयने चतुर्विंशतिः । अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ भङ्गौ । विकलेन्द्रियसंझ्यसंज्ञिनां चापर्याप्तानामिमे द्वे उदयस्थाने-एकविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियं-तैजसं कार्मगमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं द्वीन्द्रियजातिस्त्रसबादरापर्याप्तानि दुर्भगानादेयायशःकीर्तय इति । एषा चैकविंशतिरन्तरालगतिः | स्थानां ज्ञेया । इयं च सर्वाऽप्रशस्तपदेत्येक एव भङ्गः। ततः शरीरस्थस्यौदारिकद्विकहुण्डसेवाभ्रेपघातप्रत्येकलक्षणप्रकृतिषट्कप्रक्षेपे तिर्यगानुपूर्व्याश्चापनयने पर्विंशतिः । अत्राप्येक एव भङ्गः। एवं त्रीन्द्रियादीनामपि वाच्यम् । तदेवमपर्याप्तद्वीन्द्रियादीनामुदयस्थानाश्रितौ द्वौ द्वौ भङ्गो, केवलमपर्याप्तसंज्ञिनश्चत्वारः, यतो द्वावपर्याप्तसंज्ञिनस्तिरश्चो द्वौ च मनुष्यस्येति । तथा पर्याप्तसूक्ष्मैकेन्द्रियागां
चत्वार्युदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे NI वर्णादिचतुष्टयं निर्माणं तियरिद्वकं एकेन्द्रियजातिः स्थावरसूक्ष्मपर्याप्तदुर्भगानादेयायश-कीय इति । एषा चैकविंशतिः सूक्ष्मपर्याप्त
For Private and Personal Use Only

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319