Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achana Shri Kailassarsuri Garmandie कर्मप्रकृतिः ॥१५६।। क्षपयति, पश्चात् षोडश कर्माणीति । ततोऽन्तर्मुहर्तमात्रेण नवानां नोकषायाणां चतुणां च संज्वलनानामन्तरकरणं करोति । अन्तरकरणे च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते, तच्चान्तर्मुहूर्त्तमात्रेण पल्योपमासंख्येयभागमात्रं क्षपकश्रेणि भवति । ततः प्रभृति वध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिक प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहत्तमात्रेण निःशेष | क्षीयते, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामानं तत्, तच्च वेद्यमानासु प्रकृतिषु स्तियुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः। ततोऽन्तर्मुहूतेन कालेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षप्यते, ततः पद नोंकषायान् युगपत्क्षपयितुमारभते । ततः प्रभृति तेषामुपरितनस्थितिगतं दलिकं पुंवेदे न संक्रमयति, अपि तु | संज्वलनक्रोधे । एवं चान्तर्मुहूर्त्तन नोकषायषट्कोपरितनदलिकं निःशेषतः क्षीणं, तत्समय एव च पुंवेदस्य बन्धोदयोदीरणोच्छेदः | समयोनावलिकाद्वयबद्धं मुक्त्वा शेषदलिकक्षयश्च, इदं च पुंवेदिनः प्रारम्भकस्य ज्ञेयम् । यदा तु नपुंसकवेदी प्रारम्भकस्तदा प्रथमं स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति, तत्क्षयसमय एव च पुवेदबन्धव्यवच्छेदः। ततः पुंवेदहास्यषट्के युगपत्क्षपयति । यदा तु स्त्रीवेदी) क्षपकश्रेणिप्रारम्भकस्तदा प्रथमं नपुंसकवेदं ततः स्त्रीवेदं क्षपयति, तत्क्षयसमकालमेव च पुंवेदवन्धव्युच्छेदः, ततः पुंवेदहास्यषद्कयोयुगपत्क्षयः । अथ धूवेदिनः प्रस्तुतमभिधीयते-क्रोधं वेदयमानस्य पुवेदिनः क्रोधाद्धाया भागत्रयं भवेत्-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च । तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्घकानि संज्वलनचतुष्कस्याप्यन्तरकरणेनोपरितनस्थितौ करोति । अस्यां चाद्धायां वर्तमानः पुंवेदमपि समयोनद्वथावलिकारूपेण कालेन क्रोधे गुणसंक्रमेण संक्रमयन् ॥१५६।। | चरमसमये सर्वसंक्रमेण संक्रमयति । एवं क्षीणपुरुषवेदः अश्वकर्णकरणाद्धासमाप्त्यनन्तरं किट्टिकरणाद्धायां प्रविष्टः सन् संज्वलनचतु-14 DOORDERATION For Private and Personal Use Only

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319