Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
| यत् 'मणिटुं' ति-मनस इष्टं, यद्वा 'अणि'-ति निष्ठा पर्यवसानं तद्रहितं सुखं परमपदप्राप्तिभाव्यव्यावाधलक्षणमुपयन्ति प्राप्नुवन्ति ।। तथाहि-करणाष्टकादिपरिज्ञानवन्तस्तथातथापरिणामयुक्तं कर्मजालमेव दुरन्तदुःखज्वलनज्वालावलीढसंसारकारणं निश्चिन्वन्तस्तत्क्षयाय पारमेश्वरीमाज्ञामास्थाय सम्यग्यतमाना इच्छायोगशास्त्रयोगपरिपाकोपनतशुद्धात्मस्वभावलाभास्तदनन्तरप्रसृमरसामर्थ्ययोगातिशयदहनदग्धनिःशेषान्तरायाः परमधर्मसन्न्यासपवित्रा महात्मानःक्षपकश्रेणिमपि प्रारभन्ते । तत्र चायं क्रमः___ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः उत्तमसंहननी शुभध्यानोऽविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः, केवलं यद्यप्रमत्तसंयतः पूर्ववित्तदा शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्मध्यानोपगतः। तत्र क्षपकश्रेणि| मारोहन प्रथमतोऽनन्तानुबन्धिनः क्षपयति, तद्विधिश्च निःशेषः प्रागुक्त एवेति न भूय उच्यते । क्षीणसप्तकश्चाबद्धायुश्चारित्रमोहनीयक्ष| याय यतमानो यथाप्रवृत्तादिकरणत्रयं करोति । तत्र यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने, अपूर्वकरणमपूर्वकरणगुगस्थाने, अनिवृत्तिकरणम| निवृत्तिवादरसम्परायगुणस्थाने। तत्रापूर्वकरणे स्थितिघातादिभिर्मध्यमकषायष्टक तथा क्षपयति यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्प|ल्योपमासङ्घथेयभागमात्रस्थितिकं भवति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु स्त्यानदित्रिकनरकदिकतिर्यग्दिकाद्यजातिचतुष्टयस्थावरातपोद्योतसूक्ष्मसाधारणानां पोडशप्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासङ्खयेयभागमात्रा स्थितिर्भवति । ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति । इह मध्यमकपायाष्टकं प्रागेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं, केवलमपान्तराल एवं पूर्वोक्तं प्रकृतिषोडशकं क्षपितं, ततः पश्चात्तदमि कषायाष्टकं मुहूर्तमात्रेण क्षपयति, एष मूत्रादेशः । अन्ये त्याहुः-षोडशकर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् |
For Private and Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319