Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्पराय उच्यते । प्रागुक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति, प्रथमद्वितीयकिट्टिगताथ यथास्वं द्वितीयतृतीय किट्टयन्तर्गता वेद्यन्ते । सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्ति, एकोऽवशिष्यते, ततस्तस्मिन् | संख्येयभागे संज्वलनलोभं सर्वापवर्त्तनयाऽपवर्च्य सूक्ष्मसम्परायाद्धासमं करोति, सा चाद्याप्यन्तर्मुहूर्त्तमाना, ततः प्रभृति च मोहस्य | स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवर्त्तन्त एव, तां च लोभस्यापवर्त्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयः । तस्मिँश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरण चतुष्कयशः कीर्युच्चैर्गोत्रान्तरायपञ्चकरूपाणां पोडशकर्मणां बन्धव्यवच्छेदो मोहनी यस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकषायो जायते । तस्य च शेषकर्मणां स्थितिघातादयः प्राग्वत् प्रवर्त्तन्ते यावत् क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिँश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्कनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्त्तनयाऽपवर्च्य क्षीणकपायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यम् । ततो द्विचरमसमये निद्राद्विकस्य स्वरूपसत्तापेक्षया क्षयश्चतुर्दशानां प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायते, स च भगवान् जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतश्च देशोनपूर्वकोटिं यावद्विहृत्य सर्वोऽपि समुदूधातादवगायोजिकाकरणमारभते । तत्करणानन्तरं च कश्चित् कर्मणां समीकरणार्थं समुद्धातं गच्छति, यस्य वेदनीयादि कर्म For Private and Personal Use Only Baa

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319