Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SODCODEDICADDIT | सयोग्ययोगिकेवलिनोरिव । संयमद्वारे सामायिकच्छेदोपस्थापनयोः प्रमत्तसंयतादिष्वनिवृत्तिवादरपर्यन्तेष्विव । परिहारविशुद्धिके | प्रमत्ताप्रमत्तयोरिव । सूक्ष्मसम्पराये सूक्ष्मसम्परायगुणस्थान इव । यथाख्यातसंयमे उपशान्तमोहक्षीणमोहसयोग्ययोगिकेवलिनामिव । देशसंयमे देशविरतगुणस्थान इव । असंयमे प्रथमगुणस्थानचतुष्टयस्थानामिव । दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोमिथ्यादृष्टयादीनां क्षीण-17 | मोहान्तानामिव । अवधिदर्शनेऽविरतसम्यग्दृष्टयादीनां क्षीणमोहान्तानामिव । केवलदर्शने सयोग्ययोगिकेवलिनोरिव । लेश्याद्वारे आद्यासु | | पञ्चसु लेश्यासु मिथ्यादृष्टयादीनामप्रमत्तसंयतान्तानामिव । शुक्ललेश्यायां मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव वाच्यम् । | भव्यद्वारे भव्येषु सर्वगुणस्थानतुल्यम् । अभब्येषु मिथ्यादृष्टेरिख । सम्यक्त्वद्वारे क्षायोपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामप्रमत्तसंयतान्तानामिव । औपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामुपशान्तमोहान्तानामिव । क्षायिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामयोगिकेवलिपर्यन्तानामिव । मिथ्यात्वे मिथ्यादृष्टेरिख । सासादने सासादनस्येव । मिश्रे मिश्रस्येव । संज्ञिद्वारे संज्ञिषु मनुष्यगताविव । असंज्ञिषु मिथ्यादृष्टिसासादनयोरिव । आहारकद्वारेऽनाहारके मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टययोगिकेवलिनामिव । आहारके मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव सत्पदप्ररूपणा कर्तव्या । तदेवं सप्ततिकार्थोऽपि सम्बन्धाधिकारे प्रसक्तानुप्रसक्तः प्ररूपितः । तदेवं ग्रन्थक; यत् पूर्व प्रतिज्ञातं कर्माष्टकस्य करणाष्टकमुदयसत्ते च वक्ष्यामीति तत्समर्थितम् ॥५४॥ करणोदयसंतविऊ तन्निज्जरकरणसंजमुज्जोगा। कम्मट्ठगुदयनिट्ठाजणियमणिटुं सुहमुवेति ॥५५॥ १ कर्मग्रन्थे आद्यासु तिसृषु लेश्यासु चत्वारि षड् वा गुणस्थानान्युक्तानि, अत्र आधासु पञ्चसु लेश्यासु अप्रमत्तपर्यन्तानि सप्त गुणस्थानानि प्रतिपादितानि तनु मतान्तरेणावसेयम् । ECENENELOYS R For Private and Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319