Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः ॥१५॥
जीवस्थानेषु बन्धादिस्थानानि
FROHDOOGe
| मुदयसत्ते, उपशान्तमोहे सप्तानामुदयोऽष्टानां सत्ता। क्षीगमोहे सप्तानामेवोदयः सत्ता च । सयोगिकेवलिनोश्चतुर्णामुदयसत्ते । तथा षष्ठं गुणस्थानं यावत्सप्तानामष्टानां वोदीरणा । तत्र यदायुः पर्यन्तावलिकाप्राप्तं भवति तदा तस्योदीरणाऽभावात्सप्तानामुदीरणा, | शेषकालं त्वष्टानाम् । मिश्रगुणस्थाने तु सदैवाष्टानामेव, आयुःपर्यन्तावलिकायां वर्तमानस्य मिश्रगुणस्थानासंभवात् । अप्रमत्तापूर्वकरणा| निवृत्तिबादरेषु वेदनीयायुर्वर्जानां षण्णामुदीरणा, तेषु वेदनीयायुषोरुदीरणाभावात् तद्योग्याध्यवसायस्थानासंभवात् । सूक्ष्मसम्पराये पण्णां पञ्चानां वोदीरणा, तत्र प्रथमतः षण्णां, सा च तावद्यावदावलिका गुणस्थानस्य शेषा न भवति, आवलिकायां तु शेषीभूतायां मोहनीयमप्यावलिकोप्रविष्टमिति तस्योदीरणाया अभावात्पश्चानामुदीरणा । एतेषामेव पञ्चानामुपशान्तमोहेऽपि । क्षीणमोहे पश्चानां तावदुदीरणा यावत्स्वावलिका शेषा न भवति । आवलिकायां तु शेषीभूतायां ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वेनोदीरणाया अभावात् द्वयोर्नामगोत्रयोरुदीरणा । सयोगिकेवलिन्यपि तयोरेव द्वयोरुदीरणा । अयोगी तु योगाभावादेव न किंचिदु| दीरयति । एकद्वित्रिचतुरिन्द्रियाणां कायद्वारे स्थावरकायानां सप्तानामष्टानां वा बन्धोदीरणे, अष्टानामुदयसत्ते । तथा योगद्वारे मनो
योगिनो वीतरागच्छद्मस्थपर्यवसाना इव वेदितव्याः, मनोयोगिनां क्षीणमोहगुणस्थानकं यावत्संभवात् । काययोगिनो वाग्योगिनश्च | | सयोगिकेवलिपर्यन्ता इव द्रष्टव्याः, काययोगवाग्योगयोः सयोगिकेवलिगुणस्थानं यावत्संभवात् । वेदद्वारे त्रिवेदाः, कषायद्वारे त्रिक-E पाया नवगुणस्थानतुल्याः, वेदत्रयस्य कषायत्रयस्य चानिवृत्तिवादरसम्परायं यावत्संभवात् । लोभे सूक्ष्मसम्परायान्ता इव वाच्याः, | लोभस्य सूक्ष्मसम्परायं यावत्संभवात् । ज्ञानद्वारे मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्ट्यादिषु सम्यनिथ्यादृष्टिपर्यन्तेष्विव ।। | मतिश्रुतावधिज्ञानेष्वविरतसम्यग्दृष्टयादिषु क्षीणमोहपर्यन्तेष्विव । मनापर्यवज्ञाने प्रमत्तसंयतादिषु क्षीणमोहपर्यन्तेष्विव । केवलज्ञाने
3ckKOROL
॥१५४॥
For Private and Personal Use Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319