Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । तत्राटसप्ततिः पन्त्यमानत्वात् । सत्तास्थामप्येकविंशती पहावंशसातादः चादरपर्याप्तस्य सर्वे भङ्गा एकोनत्रिंशत् । संज्ञिपर्याप्तस्य चतुर्विशतिवर्जानि सर्वाण्यप्युदयस्थानानि । चतुर्विशत्युदय एकेन्द्रियाणामेवेति तत्प्रतिषेधः । उदयस्थानभङ्गाश्च देवनारकर्तियमनुष्यानधिकृत्य यथाऽधस्तादुक्तास्तथैवात्रापि भाव्याः। पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिना| मेकविंशतिषविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपाः षडदया भवन्ति । तत्र द्वित्रिचतुरिन्द्रियाणां यथाऽधस्ताद्भङ्गास्तथात्रापि भाव्याः । यथा च सामान्यतियपश्चन्द्रियाणामधस्तादुक्तास्तथाऽसंज्ञिनामपि । नवरं सर्वेषामप्येकविंशतौ षड्विंशतौ च प्रत्येकमपर्या पदाश्रितो य एकैको भङ्गः स इह न वाच्यः, पर्याप्तानामेवेह चिन्त्यमानत्वात् । सत्तास्थानान्यायेषु त्रयोदशसु जीवस्थानेषु पश्च पञ्च, तत्र त्रीण्यध्रुवसंज्ञानि द्विनवतिरष्टाशीतिश्च। तत्राष्टसप्ततिः सूक्ष्मवादरैकेन्द्रियेषु तेजोवायुवाद्येषु चतुर्वृदयेषु, तेजोवायुभवादुवृत्तेषु । चैकविंशतिचतुर्विंशत्युदययोः, द्वीन्द्रियादिषु तु तेजोवायुभवादुद्वृत्तेषु एकविंशतिचतुर्विंशत्युदययोः प्राप्यते, न शेषेषूदयेपु । संज्ञिनस्तु | गुणस्थानक्रमेण द्वादशापि सत्तास्थानानि नाम्नः प्रागुक्तदिशा भावनीयानि । ___ अथ गत्यादिषु बन्धादिस्थानविषयसत्पदप्ररूपणा क्रियते । तत्र नारकतिर्यसुरगतिषु कर्माणि बध्यन्ते सप्ताष्टौ. वा, तत्रायुबन्धकालेऽष्टौ, शेषकालं सप्त । उदये च अष्टावेव । उदीयन्ते सप्ताष्टौ वा, तत्र स्वस्वायुःपर्यन्तावलिकायां नोदीर्यत इति सप्त, शेषकालं त्वष्ट उदीरणानि । सन्ति चैता तिसृषु गतिष्वष्टैव प्राप्यन्ते, न तु कदापि सप्त चत्वारि वा, तत्र श्रेण्यादिप्रतिपत्यभावात् , मनुष्यगतावि|न्द्रियद्वारे पञ्चेन्द्रियाणां कायद्वारे त्रसानां गुणस्थानाभिहितं द्रष्टव्यं, तच्चेदं-मिश्रं वर्जयित्वा सप्तमगुणस्थानं यावत्सप्तानामष्टानां वा बन्धः। तत्रायुर्वन्धकाले सप्तानां, शेषकालं त्वष्टानाम् । मिश्रापूर्वकरणानिवृत्तिवादरेषु सप्तानामेव, तेषामतिविशुद्धत्वेनायुबन्धासंभवात् । - 1क्ष्मसम्पराये षण्णां बन्धः, तत्र मोहम्याप्यबन्धात् । ततः परं त्रिषु गुणस्थानेष्वेकस्यैव वेदनीयस्य बन्धः । तथा सूक्ष्मसम्परायं यावदष्टाना GGGES HeacOOGGERSHDHD For Private and Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319