Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामेकैको भङ्गः। सर्वसंख्ययाऽपर्याप्त संज्ञिनि द्वादश। मोहनीयस्य बन्धोदयसत्तास्थानानि संज्ञिनः पर्याप्तस्य सर्वाण्यपि सप्रमेकर्मप्रकृतिः दानि यथाऽधस्तादुक्तानि तथा वाच्यानि । बादरैकेन्द्रियविकलेन्द्रियासंज्ञिपश्चेन्द्रियेष्वादिमी द्वौ बन्धौ-द्वाविंशतिरेकविंशतिश्च । जीवस्थानेषु इमौ च यथाऽधस्तादुक्तौ तथा शेयौ । नवरमेकविंशतिः करणापर्याप्तावस्थायां द्रष्टव्या । पर्याप्तापर्याप्तसूक्ष्मापर्याप्तवादरद्वीन्द्रियत्रीन्द्रि
बन्धादि. ॥१५२॥ यचतुरिन्द्रियासंज्ञिसंज्ञिरूपेष्वष्टसु जीवस्थानेषु द्वाविंशतिरेवैको बन्धः । स च सप्रभेदः प्राग्वद्वाच्यः । एतेष्वेवाष्टसु त्रीण्युदयस्थानानि
स्थानानि भवन्ति, तद्यथा-अष्ट नव दश चेति । यस्तु सप्तकमुदयस्थानमनन्तानुवन्ध्युदयरहितं तन प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् । वेदश्च तेषामुदयागतो नपुंसकवेद एव, न स्त्रीनृवेदौ । ततोऽष्टोदयेऽष्टौ भङ्गाः, नवोदये षोडश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं द्वात्रिंशद्भङ्गाः। एतान्येव त्रीणि सप्तकयुतानि पर्याप्तपादरैकेन्द्रियविकलेन्द्रियासंज्ञिरूपेषु पञ्चसु चत्वायुदयस्थानानि ७-८-९ -१० । तत्र सासादने सप्ताष्टौ नव चेति त्रीणि । मिथ्यादृष्टावष्टादीनि त्रीणि । वेदश्चैतेषामुदयप्राप्तो नपुंसकवेद एव । ततश्चतुर्विंश
तिस्थाने भङ्गानामष्टकं द्रष्टव्यं, तेन सासादने मिथ्यादृष्टौ च प्रत्येकं द्वात्रिंशद्भङ्गाः । एतेषु पञ्चकाष्टकरूपेषु त्रयोदशसु जीवस्थानेषु | २४ त्रीणि त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्च । तत्रापि बादरैकेन्द्रियादिषु पञ्चसु सासादनभावापन्नेषु अष्टा-1 विंशतिरेवैकं सत्तास्थानम् । संज्ञिनि तु करणापर्याप्ते कस्मिंश्चित्सप्तदशवन्धोऽपि षडादीनि च चत्वार्युदयस्थानानि चतुर्विंशत्येकविंशतिरूपाण्यपि च सत्तास्थानानि ज्ञेयानि । नामकर्मणः संज्ञिनि पर्याप्तेऽष्टावपि बन्धस्थानानि, तानि च प्रारद्वाच्यानि । असंज्ञिनि पर्याप्ते
आदिमानि षट् बन्धस्थानानि २३-२५-२६-२८-२९-३० । असंज्ञिपञ्चन्द्रियाणां पर्याप्तानां हि नरकगतिदेवगतिप्रायोग्यवन्धोऽपि ||१५२॥ II भवतीत्यष्टाविंशतिरपि बन्धस्थानं लभ्यते । तान्येवाष्टाविंशतिहीनानि २३-२५-२६-२९-३० पश्च पर्याप्तापर्याप्तविकलेन्द्रियबादर-11
For Private and Personal Use Only

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319