Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
www.kobatirth.org त्रिंशच । एतानि प्राग्वत्स भेदानि वाच्यानि । केवलमेकोनत्रिंशत्रिंशच्च तीर्थकराहारकद्विकसहिता न वाच्या, तिरश्चां तद्वन्धासंभवात्। नवोदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । एतान्येकेन्द्रियविकलेन्द्रियसवैक्रियतिर्यपश्चन्द्रियानधिकृत्य सभेदानि प्रारद्वाच्यानि । पञ्च सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न संभवन्ति, तीर्थकरनाम्नः क्षपकश्रेण्याश्च तिर्यक्ष्वभावात् । सम्प्रति संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नवोदयस्थानानि, तानि चानन्तरमेवोक्तानि । तत्रायेषु चतुर्यु | | २१-२४-२५-२६ प्रत्येकं पञ्च सत्तास्थानानि-नवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्चेति । इहाष्टसप्ततिस्तेजोवायूँस्तद्भवादुद्वृत्तान् |
वाऽधिकृत्य ज्ञेया। शेषेषु तु सप्तविंशत्यादिषु पञ्चदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि १५ नियमेन मनुष्यद्विकसंभवात् अष्टसप्तति वाप्यते । एवं पञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धकानामपि वाच्यं, नवरमेकोनत्रिंशतं
मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्याष्टावुदयस्था| नानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । तत्रैकविंशतिपड्विंशत्यष्टाविंशकत्येकोनविंशत्रिंशद्रूपाः पञ्चोदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मि |
श्व द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्वां ज्ञेयौ, तत्रापि ते एव द्वे द्वे सत्तास्थाने। त्रिंशदेकत्रिंशदुदयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्मैिश्च त्रीणि त्रीणि सत्तास्थानानि-द्विनवतिरष्टाशीतिः पडशीतिश्च । षडशीतिमिथ्यादृष्टीनां ज्ञेया, सम्यग्दृष्टीनामसंभवात, तेषामवश्यं देवद्विकादिबन्धभावात् । तदेवं सर्वबन्धोदयस्था
2ODOOR&CONS
For Private and Personal Use Only

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319