Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द
तत्रोक्तं-"जो उवसम्महिट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले वेएइ, तेण न उवसमसम्मट्टिी अपज्जत्तगो लम्भइ ति" । तत्त्वमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तियअनुष्याणां क्षायिकवेदकसम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणो ज्ञेया । अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यङमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपञ्चेन्द्रियमनुष्यदेवानाम्, एक-130 | त्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बद्धा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य त्रिनवतिः । यस्त्वाहारकं बढ़ा परिणामपरावृत्त्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः । देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्य-13 ग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यङ्मनुष्यानधिकृत्य । तत्रापि
पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | | देवगतियोग्या नरकगतियोग्या च । तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एव बध्नन्ति । तेषामुदयस्थानानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकैकस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः
For Private and Personal Use Only

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319