Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत् । एतेषु प्रत्येकं द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यैकत्रिंशदुदयोऽपि वाच्यः, तत्रापि चैते एव द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यननरोक्तान्येव पञ्च, तेषु प्रत्येक द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशदन्तेषूदयेषु चत्वारि चत्वारि सत्तास्थानानि, एकत्रिंशदुदये च द्वे इति सर्वसङ्खथया द्वाविंशतिः।
अथ प्रमत्तसंयतस्य बन्धादिस्थानान्यभिधेयानि-तत्र प्रमत्तसंयतस्य द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच, ते च देशविरतस्येव भावनीये । पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशद । एतानि सर्वाण्यप्याहारकसंयतस्य | | वैक्रियसंयतस्य वा ज्ञातव्यानि । त्रिंशत्स्वभावस्थसंयतस्यापि । तत्र वैक्रियसयतानामाहारकसंयतानां च पञ्चविंशतिसप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः, अष्टाविंशतावेकोनविंशति च द्वौ द्वौ, त्रिंशति चैकः, सर्वसङ्ख्यया चतुर्दश । त्रिंशदुदयः खभावस्थस्यापीति, तत्र
चतुश्चत्वारिंशं शतं भङ्गानां १४४ । तच देशविरतस्येव भावनीयम् । सर्वसङ्कथयाऽष्टपञ्चाशं शतं १५८। चत्वारि सत्तास्थानानि-विन| वतिविनवतिरेकोननवतिरष्टाशीतिश्च । सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्विनवत्यष्टाशीत्यात्मके दे द्वे सत्तास्थाने । तत्राहारकसंयतस्य द्विनवतिरेव, आहारकसत्कर्मा ह्याहारकशरीरमुत्पादयतीति, वैक्रियसंयतस्य तु द्वे अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते । एकोनाशद्वन्धकस्य पश्चस्वप्युदयस्थानेषु प्रत्येक
द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च। तत्राहारकसंयतस्य त्रिनवतिरेव, तस्यैकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकराहारकसदK भावात् , वैक्रियसंयतस्य तु द्वे अपि । तदेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्ते इति
For Private and Personal Use Only

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319