SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द तत्रोक्तं-"जो उवसम्महिट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले वेएइ, तेण न उवसमसम्मट्टिी अपज्जत्तगो लम्भइ ति" । तत्त्वमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तियअनुष्याणां क्षायिकवेदकसम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणो ज्ञेया । अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यङमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपञ्चेन्द्रियमनुष्यदेवानाम्, एक-130 | त्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बद्धा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य त्रिनवतिः । यस्त्वाहारकं बढ़ा परिणामपरावृत्त्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः । देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्य-13 ग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यङ्मनुष्यानधिकृत्य । तत्रापि पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | | देवगतियोग्या नरकगतियोग्या च । तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एव बध्नन्ति । तेषामुदयस्थानानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकैकस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy