________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४९॥
तिरश्वां बन्धादिस्थानानि संवेधश्च
| एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राद्ये द्वे द्विचरमसमयं यावल्लभ्येते, चरमसमयेऽष्टौ । नवोदये त्रीणि सत्तास्थानानि-अशीतिः षट्सप्ततिनव च । तत्राये द्वे द्विचरमसमयं यावत् , चरमसमये नव । तदेवं गुणस्थानेषु नाम्नो बन्धोदयसत्तास्थानानि अपश्चितानि । ____ अथ गतिषु प्रपञ्च्यते-तत्र नैरयिकाणां द्वे बन्धस्थाने-एकोनत्रिंशत्रिंशच । तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यपश्चेन्द्रियप्रायोग्या वा, त्रिंशत्तिर्यपञ्चेन्द्रियप्रायोग्या सोद्योता, मनुष्यगतिप्रायोग्या तु जिननामसहिता । भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः। उदयस्थानानि पञ्च-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । एतानि सप्रभेदानि प्राग्वद्वाच्यानि । त्रीणि सत्ता| स्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकोननवतिबद्धजिननाम्नो मिथ्यात्वगतस्य नरकाभिमुखस्यावसेया। त्रिनबतिस्तु
न संभवति, जिनाहारकसत्कर्मणो नरकेष्वनुत्पादात् । अथ संवेध उच्यते-नैरयिकस्य तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बध्नतः पञ्चो | दयस्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येकं वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धा| संभवादेकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्चस्वप्युदयस्थानेषु त्रीण्यपि ९२-८९-८८ सत्तास्थानानि भवन्ति । जिननामसत्कर्मा नरकेषूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकोनत्रिंशतं, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं बध्नाति, जिननाम्नोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यां सोद्योतां त्रिंशतं बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्राग्वत् । मनुष्यगतिप्रायोग्यां जिननामसहितां बघ्नतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकं सत्तास्थानं-एकोननवतिः। सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत् ।
अथ तिरश्चां बन्धादिस्थानान्युच्यन्ते तत्र । तिरथा षट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंश
५१४९॥
For Private and Personal Use Only