Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir KAROBARA ADDEGREE DOOligom स एव मनुष्ये नव भङ्गास्त एव परभवायुर्वन्धकालीननारकर्तियङ्मनुष्यायुर्बन्धघटितभङ्गत्रयहीनाः षड् द्रष्टव्याः, प्रमत्ताप्रमत्ता हि देवायु| रेवैकं बध्नन्ति न शेषं, बन्धोत्तरकालं चरणप्रतिपच्या सत्ता तु चतुर्णामप्यायुषां संभवत्येव । अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोप- | शान्तमोहेधूपशमश्रेण्यां द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष भङ्गः परभवायुर्वन्धकालात्पूर्व, यद्वा मनुष्यायुष उदयो देवमनुष्यायुषी सती, एप भङ्गः परभवायुर्बन्धोत्तरं पूर्वबद्धदेवायुष उपशमश्रेणिप्रतिपत्तिसंभवात् , क्षपकश्रेण्यां त्वेतेषां मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष एक एव भङ्गः, पूर्वबद्धायुषा क्षपकश्रेण्यप्रतिपत्तेः । क्षीणमोहादिगुणस्थानत्रयेऽप्येष एवैको भङ्गो द्रष्टव्यः । उक्ता गुणस्थानेष्वायुषो भङ्गाः। अथ गोत्रस्योच्यन्ते-मिथ्यादृष्टौ गोत्रस्यादिमाः पञ्च भङ्गाः, तद्यथा-नीचेर्गोत्रस्य बन्धो नीचैर्गोत्र-2 स्योदयो नीचैर्गोत्रं सत , एष तेजोवायुषु तद्भवादुवृत्तेषु वा कियत्कालम् । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती, यद्वा | नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्र-12 स्योदयो द्वे सती, एते चत्वारोऽपि यथायोगं मिथ्यादृशां संभवन्ति । एत एवादिमहीनाश्चत्वारः सासादने संभवन्ति, आधभङ्गस्थानेषु | तेजोवायुषु सासादनभावो न लभ्यते, नापि तद्भवादुद्वृत्तेषु तदात्वे इति तत्प्रतिषेधः । मिश्रादारभ्य देशविरतिं यावदुच्चैर्गोत्रबन्धोRI पलक्षितौ प्रत्येकं द्वौ भङ्गौ भवतः । प्रमत्तसंयतादारभ्य सूक्ष्मसम्परायं यावन्नीचैर्गोत्रोदयाभावादुच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो । द्वे सती इत्येक एव भङ्गः । अबन्धेऽयोगिद्विचरमसमयं यावदुच्चैर्गोस्योदयो द्वे सती इति षष्ठ एव, चरमसमये तूच्चैर्गोत्रस्योदय 2. उच्चैर्गोत्रमेव च सदिति सप्तम एव भङ्गः। उक्ता गुणस्थानेषु गोत्रभङ्गाः । अथ मोहनीये गुणस्थानेष्वपिबन्धोदयसत्तास्थानान्युक्तान्येवेति | | न भूय उच्यन्ते । SADHDHOT For Private and Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319